________________
षष्ठः सर्गः ।
१९५ ॥
तत्राक्षराणि संवीक्ष्य मुदिताऽवाचयत् ततः ॥ १९३॥ अचिन्तयच्च तच्चेतोगगनाङ्गणचन्द्रिका | ध्रुवमस्म्यन्यथाऽऽदेशप्रसादोऽयं कथं मम ॥ १९४ ॥ ततः स्वभर्तुरादेशं दधाना हृदयेऽधिकम् । व्रजामि स्वपितुर्धा पत्युर्न तु पतिं विना ॥ मया सह प्रियेणाऽपि गन्तव्यं वाञ्छितं पुरा । विशेषेणाद्य तद् यामि पत्यादेशात् पितुर्गृहम् ॥ १९६॥ ध्यात्वेति गन्तुमारेभे दवदन्ती वटाध्वना । वीक्ष्यमाणाऽक्षराण्युच्चैर्मूर्त नलमिवाऽग्रतः ॥१९७॥ व्याघ्रा व्यात्तमुखाः सर्पाः सदर्पा नगजा गजाः । ज्वाला जाङ्गुलिका सिंहीवदस्या दूरतोऽभवन् ।। १९८ ॥ अन्येऽप्युपद्रवास्तस्या यान्त्या वर्त्मनि नाऽभवन् । पतिव्रताव्रतं स्त्रीणां क्षेमस्थेमावहं यतः ॥ १९९ ॥ सा लोलकुन्तला स्वेदजलाविलवपुलता । समुत्सुकपदं यान्ती हृद्यमान्ती महाशुचा ॥ २०० ॥ दर्भविद्धपदप्रोद्यद्रक्तसिक्तमहीतला । . सार्थमेकमुदैक्षिष्ट विष्टपर्धिनिकेतनम् ॥ २०९ ॥ अचिन्तयच्च सार्थोऽयं मया लब्धस्तरण्डवत् । अरण्यार्णवनिस्तारस्तदनेन भविष्यति ॥ २०२ ॥ यावत् तस्थावसौ स्वस्था दवदन्ती महासती । तावत् तं रुरुधुः सार्थ कचिदागत्य दस्यवः ॥ २०३ ॥ आयान्तीमिति च दृष्ट्रा ततश्चौरचमूममूम् । चकारधिभयां लोको यतः स्याद् भाजने भयम् ॥ २०४ ॥ मा मा यूयं भयं लोकाः ! कुरुध्वं सार्थवासिनः । तदीयगोत्रदेवीवाऽवादीदिति नलप्रिया ॥ २०५ ॥ तस्करानवद् रे रे ! यात दूरं दुराशयाः ! | अन्यथाऽनर्थसार्थो वः सार्थो यद् रक्ष्यते मया ॥ २०६ ॥
१७५