________________
१७४
मल्लिनाथमहाकाव्ये
अकारुण्यादरण्यान्तः कथं मां वल्लभोऽमुचत् । भविष्यति गतो मन्ये क्षालनाय मुखस्य वा ॥१८०|| यद्वा पलाशपालाशैरानेतुं विमलं जलम् । मन्मुखक्षालनायाऽयमुद्यतो नैति यद् नलः॥१८१॥ तदेव हि सरोऽरण्यसरिगिरिगुहादिकम् । नलं विनाखिलं युक्तमनलं तनुते दृशोः ॥१८२॥ एवं चिन्ताचान्तचेतोवृत्तिदिगवलोकिनी । खप्राणेशमपश्यन्ती स्वप्नस्याऽर्थ व्यचारयत् ॥१८३॥ सहकारो नलो राज्यं फलं परिजनो लयः। दवदन्ती परिभ्रष्टाऽस्म्यहं तद् दुर्लभो नलः ॥१८४॥ स्वप्नार्थनिश्चयादेवं दध्यौ भीमसुता हृदि । न भर्ता न च राज्यं मे दैवाद् भ्रष्टा द्वयोरपि ॥१८५॥ तारतारस्वरं तारलोचना विललाप सा । दुर्दशापतितानां ह्यबलानां रुदितं बलम् ॥१८६॥ प्राणनाथ ! किमु त्यक्ता भक्तचित्ताऽपि हि त्वया। कथं भारं तवाऽकार्ष यद्वा चरणबन्धनम् १ ॥१८७॥ तिरोहितोऽथ वल्लीभिः परिहासेन यद्यसि । तद्देहि दर्शनं स्थातुं न चिरं रुचिरं यतः ॥१८८॥ याचते दवदन्त्येषा वनदेव्यः ! प्रसीदत । प्रियं प्रियस्य मार्ग वा मह्यं दर्शयताऽनघाः ॥१८९॥ , त्वं धरित्रि ! भव द्वैधं पवन ! त्वं गृहाण माम् । दूरं जीवित ! गच्छ त्वं प्राणास्त्यजत मां लघु।।१९०॥ इति भीमसुता वृक्षान् सिञ्चन्ती नयनोदकैः। स्वयं तेनेऽश्रुपुष्पाणि दुःखमेकं फलं परम् ॥१९१॥ न जले न स्थले नैव छायायामातपे न च ।
लवोऽपि हि सुखस्याऽभूचिन्तयन्त्या नलं नलम्॥१९२॥ । स्वं संस्थाप्य स्वयं वस्त्रान्तेन वक्त्रममार्जयत् ।