________________
षष्ठः सर्गः।
१७३ पश्यन् विवलितग्रीवं ततो गन्तुं समुद्यतः॥१६६॥ तावद् ययौ नलो यावददृश्या दवदन्त्यभूत् । वलित्वा पुनरप्यागात् पतितद्रविणो यथा ।। १६७ ॥ दध्याविति नलो दृष्ट्वा भैमी भूतलशायिनीम् । अधिशेतेऽध्वनि श्रान्तं शुद्धान्तं नैषधेरहो ! ॥१६८॥ हहा ! मर्माविधा दुष्टकर्मणा मे कुकर्मणः । दशामेतादृशीं प्राप्ता कुलीनेयं कलानिधिः ॥१६९।। धिग् मामधर्मकर्माणं मर्मभाषकवद् भृशम् । शुद्धशीला धर्मशीला यदेवं प्रापिता दशाम् ॥१७०॥ निर्मायका समीपस्थे मयि सत्यपि ही! नले । भूमौ नितम्बिनी शेते क्षेत्रस्थेव कुटुम्बिनी ॥१७१।। एतामेकाकिनी मुक्त्वाऽन्यतो यास्याम्यहं यदि । मन्ये जीवितमेतस्या भविता मे पुरस्सरम् ॥१७२॥ रक्ता भक्ता परित्यक्तुं युक्ता नेयं ततो मम । दुःखं वापि सुखं वापि तत् सहिष्ये सहैतया ॥१७३॥ अथवा स्वपितुर्गेहं बलाद् नेष्यति मामियम् । वरं पितृपतेर्गेहं न तु पत्नीपितुर्ग्रहम् ॥१७४॥ तस्मादहं गमिष्यामि गृहीत्वा जठरं निजम् । मान्यां ममाज्ञां बिभ्राणा यात्वसौ सुजनालये ॥१७५॥ निश्चित्येति नलश्चित्ते तामुल्लकय विभावरीम् । प्रबोधकाले वैदवा॑स्त्वरितस्त्वरितं ययौ ॥१७६।। प्रभाते मारुते वाति कमलामोदमेदुरे । भीमपुत्री निशाशेषे स्वप्नमीदृशमैक्षत ॥१७७॥ यदहं सहकाराधिरूढाऽस्मि वनदन्तिना । भग्नः स तु समागत्य भ्रष्टा तस्मादहं ततः ॥१७८॥ प्रबुद्धा भीमतनया नाऽपश्यद् नलमग्रतः । समालुलोके ककुभः सा विक्रीता च शिष्टवत् ॥१७९।।