________________
१७२
मल्लिनाथमहाकाव्येपट्टबन्धं तदा पादद्वन्द्वे तस्या नलो व्यधात् । मार्गस्तावानतिक्रम्यो यतस्तस्य प्रभावतः ॥१५३॥ तरुमूलसमासीनां भीमजां निरवापयत् । स्वकीयपरिधानस्य चालयनश्चलं नलः ॥१५४॥ त्रिपत्रपत्राण्यादाय पुटीकृत्य जलं नलः । समानीयाऽपाययत् तां प्रवृद्धं नेत्रवारिभिः ॥१५५॥ विनयाद् भीमतनयाऽपृच्छदेतद् कियद्वनम् । नलोधादीदिदं देवि ! गव्यूतीनां चतुःशती ॥१५६॥ क्रोशानां विंशतिश्चैकाऽऽवाभ्यामुल्लविताऽद्य तु । एवं वार्तयतोः सूर्योऽस्तमापाऽनित्यतां वदन् ॥१५७॥ अशोकपत्राण्युञ्चित्य दवदन्त्याः कृते नलः । अनल्पं कल्पयाश्चक्रे तल्पमल्पेतराशयः ॥१५८॥ उवाच दयितां देवि ! तल्पे निद्रासखी भव । स्थास्यामि जागरूकोऽहं यामिन्यां यामिको यथा १५९॥ संव्यानार्ध नलस्तल्पे निक्षिप्य प्रेयसीं ततः। अमूषुपत् , सा सुष्वाप स्मृत्वा पश्चनमस्कृतिम् ॥१६०॥ निद्राजुषि दवदन्त्यां ध्यायति स्माथ नैषधिः । व्यसने श्वशुरस्याथ धिग मां शरणयायिनम् ॥१६१॥ तद्वल्लभामपि त्यक्त्वा विधाय हृदयं दृढम् । आत्मानमेकमादाय गच्छाम्यूर्ध्वमुखो वरम् ॥१६२॥ मन्ये न हि स्यादेतस्याः सुशीलाया उपद्रवः । सतीनामङ्गरक्षाकृच्छीलमेकं यतो मतम् ॥ १६३ ।। छुर्या चिच्छेद संव्यानं भैम्याः प्रेम्णा समं नलः । स्वरक्तेनालिखद्भीमसुतावस्त्रेऽक्षराणि च ॥१६४॥ अयमध्वा विदर्भेषु याति न्यग्रोधरोधसा । कोशलेषु तु तद्वामस्तद्गच्छेस्त्वं यथारुचि ॥१६५॥ लिखित्वेति नलः क्रोशनिभृतं निभृतक्रमः ।