________________
-, षष्ठः सर्गः।
१७१
भाव्ययं भरतार्धेशः क्षीरदानवशाद् मुनौ ॥१३९॥ स्तम्भमुन्मूल्य चारोप्य भाव्यर्धभरताधिपः। मिलितं तदिदं किन्तु राज्यभ्रंशोऽस्य दुःखकृत्॥१४०॥ अस्यां पुर्या पुना राजा भवेद्यदि पुनर्नलः। . खबान्धवं प्रति क्रूरो नन्दिष्यति न कूबरः ॥१४१॥ इत्थं पौरवचः शृण्वन्त्रत्याक्षीत् कोशलां नलः । दवदन्त्या समं बाष्पैः कृतहारावतारया ॥१४२॥ दवदन्ती नलोऽवादीद् देवि! यामः क सम्पति । भैमी बभाषे मे तातोऽतिथीभूय पवित्र्यताम् ॥१४३॥ हयान प्रेरयामास सारथिः कुण्डिनं प्रति । कर्मावलीमिवाऽलङ्घया पर्याटदटवीं नलः ॥१४४॥ भल्लीहताच्छभल्लादीन् भिल्लास्तत्र ददर्श सः । ... दधाविरे नलं दृष्ट्वा ते शरासारवर्षिणः।। १४५ ॥ नलोऽप्याकृष्टखड्गः सन् दधावे नाहलान् प्रति । सत्त्वशुद्धौ तदाकृष्टघटसर्प इवाधिकम् ॥ १४६ ॥ भैमी भुजे नलं धृत्वा बभाषे नाथ! कीदृशः । ईदृशेषु तवाक्षेपो गजस्य मशकेष्विव ॥ १४७॥ . , भरतार्धजयोसिक्तो निस्त्रिंशस्त्रपते ह्ययम् । सुनियोगी कुनियोगे योजितः स्वामिना यथा ॥१४८॥ भैमी तानभि हुंकारान् मुमोच शरदारुणान् । तेषां प्रभावात् ते काकनाशं नेशुर्जनंगमाः ॥१४९॥ बभूवतू रथाद् दूरे तौ तु तानभिगामुको। तयोरथ रथो भिल्लैरपरैरपहारितः ॥१५०॥ करे भीमसुतां कृत्वा पर्याटीदटवीं नलः। .. तस्या विश्वासनायेव ददानो दक्षिणं करम् ॥१५॥ वैदर्भी दर्भसंदर्भगर्भक्रामत्पदद्वयी। सानुरागमिवारण्यं चक्रे रुधिरबिन्दुभिः ॥१५२॥