________________
१७० मल्लिनाथमहाकाव्ये
संव्यानमात्रद्रविणः प्रचचाल कलानिधिः ॥१२६॥ अनुयान्तीं नलं भैमी कूबरस्त्ववराशयः । उवाच त्वं जिता द्यूते मेऽन्तःपुरमलंकुरु ॥१२७॥ इतश्चअमात्याः कूबरं प्रोचुर्मा कोपय सतीमिमाम् । ज्येष्ठो भ्राता पितेव स्यात् तदियं जननी तव॥१२८॥ बलादपि नलादेतां यद्याच्छिद्य ग्रहीष्यसि । त्वां कोपज्वलनेनेयं ततो भस्मीकरिष्यति ॥१२९॥ अनुयान्ती नलं तस्मादियं प्रोत्साह्यतां त्वया। नलं विसृज तड्रैम्या सरथ्यरथसारथिम् ॥१३०॥ इत्युक्तः कूबरश्चक्रे तत्तथाऽमात्यभाषितम् । निषेधं नैषधिश्चक्रे कूबरस्य रथार्पणे ॥१३१॥ प्रधानपुरुषाः मोचुर्नलं नाथ ! त्वया समम् । कथं नु वयमायामः सेव्यः पट्टो यतोऽस्ति नः॥१३२॥ तेनाद्य जगतीनाथ! नागच्छामस्त्वया सह । तेऽधुना दवदन्ती च मित्रं मन्त्री प्रिया सखा ॥१३३॥ तदियं पादचारेण कथं यास्यति वर्त्मनि । गृहाण तद्रथं नाथाऽनुगृहाण जनानमून् ॥१३४॥ अभ्यर्थनां प्रधानानामङ्गीकृत्य स कृत्यवित् । दवदन्त्या सहाऽऽरुह्य रथं राजपथेऽचलत् ॥१३५॥ नार्यों भैमीमेकवस्त्रां वीक्ष्याभ्यङ्गोद्यतामिव । वषुर्दुःखतश्चेलकोपमश्रान्तमश्रुभिः ॥१३६॥ गच्छन् नगरमध्येन पञ्चहस्तशतीमितम् । नलः स्तम्भं समुन्मूल्य पुनरारोपयत्तदा ॥१३७॥ तद् दृष्ट्रा प्रोचिरे पौरा अहो! सत्त्वमहो ! बलम् । नलस्य बलिनोऽप्यस्य व्यसनं दैवतोऽभवत् ॥१३८॥ ज्ञानिना मुनिनैकेन पुरास्ति कथितं किल ।