________________
१६९
षष्ठः सर्गः। नकस्तम्चे धन्योऽसि प्राज्यं राज्यं यदत्यजः। स नोत्तरमदात्तस्मै निरीहस्य नलो नलः ॥११३॥ जयशक्तिं च तत्सूनुं नलो राज्ये न्यवेशयत् । नलस्य भरतार्धाभिषेकश्चक्रे च पार्थिवैः ॥११४।। कोशलायामथायावो नमर्या कोशलेश्वरः। महेन महता भैम्या सहाऽस्थात्पालयन् भुवम् ॥११५।। कूबरो राज्यलुब्धस्तु नलच्छलगवेषणम् । कुरुते प्रत्यहं दुष्टव्यन्तरःशुभपात्रवत् ॥११६॥ नलश्च कुबरश्चापि द्यूतासक्तिजुषावुभौ । जयं पराजयं चापि भाते पाशपातनात् ॥११७।। अन्यदा न नलस्याऽनुकूलोऽक्षः काशितोऽपतत् । कूवरोऽमारयन् शारांस्ततस्तस्य मुहुर्मुहुः ॥११८॥ कूबरेण पराजिग्ये पुरग्रामादिकं नलः। विषण्णो राजलोकोऽथ कूबरो हर्षमाययौ ॥११९॥ दवदन्त्यवदद् द्यूतव्यसनाऽनलसं नलम् । स्वामिस्ते बन्धनायैतौ पाशको पाशकाविव ॥१२०॥ कूवराय वरं राज्यं स्वयं दत्तं त्वया शुभम् । आत्तं द्यूते पराजित्य प्रवादोऽयं न सुन्दरः ॥१२१॥ पश्यति स्म शृणोति स्म तां तद्वाचं च नो नलः । अवज्ञाता ततः पत्या सुदती रुदती ययौ ॥१२२॥ कुलामात्यैरपि चूताद् निषिद्धो नैषधिस्ततः । तद्वचो नहि शुश्राव सद्यो भूताभिभूतवत् ॥१२३॥ पृथिवीं हारयामास सान्तःपुरपरिच्छदाम् । नलो मुमोचाऽथ सर्व गात्रादाभरणादिकम् ॥१२४।। कूबरो नलमूचे च नल ! राज्यं परित्यज । राज्यं ममेदमभवत् पाशैर्बद्धमिवाधिकम् ॥१२५॥ न दूरे दोष्मतां राज्यमिति जल्पनलोऽथ तम् ।
૨૨