________________
षष्ठः सर्गः ।
१९१
1
आश्लिष्यति स्म सुदृढं राजहंसीव पद्मिनीम् ||४०६ ॥ मुक्तकण्ठं च तत्कण्ठे लगित्वाऽरुददुच्चकैः । नलमिया, भवेद् दुःखमिष्टे दृष्टे नवं यतः ॥ ४०७ ॥ प्रक्षाल्य नयनान्युच्चैर्वारिणा विनिवारणम् । चक्रुः परस्परं दुःखसमुद्गिरणपूर्वकम् ॥ ४०८ ॥ पुष्पदन्ती सुतामङ्कमधिरोप्य जगाद च । दिष्ट्या दृष्टाऽद्य जीवन्ती भाग्यं नोऽद्यापि वर्तते ॥ ४०९॥ समयं गमयन्त्यास्ते सुखेन न चिरादपि । मिलिष्यति नलः सर्व जीवो जीवल्लभेत हि ॥ ४१० ॥ हरिमित्राय भूपालो ग्रामपञ्चशतीं ददौ । पुरे तत्रोत्सवं चक्रे देवगुर्वर्चया समम् ॥ ४११ ॥ विदर्भाधिपतिः प्रोचे वैदर्भीमथ सादरम् | नलो मिलिष्यति यथा तथा वत्से ! विधास्यते ॥४१२॥ तदा च भीमजां मुक्त्वा परिभ्राम्यन् वने नलः । कक्षात् समुत्थितं धूममपश्यद् गगनातिगम् ॥४१३ ॥ धूमो निमेषमात्रेणाप्यभूत् कीलाकरालितः । वने समुद्यत्कुसुमकिंशुकौघभ्रमप्रदः ॥ ४१४ ॥ दह्यमानेषु वंशेषु क्रीडत्सु श्वापदेषु च । शब्दाद्वैतमभूत् तत्र कल्पान्त भ्रान्तिकृत्तदा ।। ४१५ ।। नलो दवानले दतेऽथाश्रौषीत् पुरुषस्वरम् । रक्ष मां नलभूपालेक्ष्वाकुवंशसमुद्भव ! ।। ४१६ ॥ अकारणोपकर्तारः सन्ता यदि तदाऽपि हि । उपकारं करिष्यामि तुभ्यमभ्यधिकं नृप ! ।। ४१७ ॥ मार्गणः शब्दवेधीव तं शब्दमभिजग्मिवान् । वंदन्त रक्षरक्षेत्यद्राक्षीत् सर्प तदन्तरे ।। ४९८ ॥ नलोऽपृच्छत् कथं वेत्सि मम नामान्वयौ ननु ? | १ विद्यते, इत्यपि ।