________________
षष्ठः सर्गः। अभूतां दम्पतीत्वेन क्षीरडिण्डीरनामकौ ॥ ३३ ।। देवश्च्युत्वाऽत्र भरते देशे कोशलनामनि । . कोशलायां महापुर्या निषधस्य महीभुजः ॥ ३४ ॥ सुन्दरायां महादेव्यां नलो नामाऽभवत् सुतः । सात्त्विको विपरीतस्तु तल्लघुः कूवराभिधः ॥ ३५ ॥
(युग्मम् ) इतो विदर्भदेशेषु नगरे कुण्डिनाभिधे । . अभूद् भीमरथो राजा पुष्पदन्तीति तत्प्रिया ॥३६॥ अन्यदा-क्षीरडिण्डीरा देवी प्रच्युत्य नाकतः। सुतात्वेनाऽवततार तस्याः कुक्षौ शुभे क्षणे ॥ ३७ ॥ सुखप्रसुप्ता सा स्वमं प्रेक्ष्य राज्ञे व्यजिज्ञपत् । . जाने हस्ती दवत्रस्तस्तवौकसि समाययौ ॥ ३८ ॥ व्याजहार ततो राजा देवि ! राजश्रियाऽधिकम् । सैन्येषु मुख्यो दन्तीव गर्भस्तव भविष्यति ॥ ३९ ॥ एवं च कुर्वतोर्वार्ता तयोर्दन्ती समागमत् । व्याकर्तुमिव तत्स्वमविचारं चारु संचरन् ॥ ४०॥ सकलत्रं नृपं स्कन्धे समारोप्य परिभ्रमन् । नागरैः पूजितः सौधे तावानीयोदतारयत् ॥ ४१ ॥ आलाने च स्वयं लीनः सिन्धुरो गोत्रबन्धुरः। सुमनोभिः सुमनोभी रत्नैश्च वधेऽधिकम् ॥ ४२ ॥ विलिप्य द्विपमर्चित्वा चक्रे नीराजनां नृपः । स्थितः स तत्र गर्भस्य पुण्येनेव स्थिरीकृतः ॥ ४३ ॥ पूर्णे काले राजकान्ताऽजनयत् तनयां च सा । तद्भाले तिलको नित्योऽभवद् रविरिव द्यवि ॥४४॥ स्वयं तेजस्विनी तेन विशेषात्तिलकेन सा । दिद्युते विद्युतेवोच्चैर्धारा वारिधरोद्भवा ॥ ४५ ॥ प्रभावाजन्मनस्तस्या भीमो भीमपराक्रमः ।....