________________
१६४ मल्लिनाथमहाकाव्ये
अधृष्यो भूभुजा जज्ञे वाडवेनेव वारिधिः ॥ ४६॥ तस्यां स्वप्रगतं प्रत्यक्षागतं च मतङ्गजम । वीक्ष्य भीमरथो नाम दवदन्तीति निर्ममौ ॥४७॥ पद्मसुन्दरनिःश्वासा पद्मास्या पद्मलोचना । जितपमा पाणिपादैमूर्ता पोव सा बभौ ॥ ४८ ॥ तामष्टवर्षदेशीयां कलाज्ञापनहेतवे । कलाचार्यस्य धुर्यस्यार्पयामास शुभे दिने ॥ ४९॥ तस्याः प्रज्ञातिशायिन्याः साक्षिमात्रमभूद् गुरुः। . स्याद्वादवादवादिन्याः प्रतिवादी न कश्चन ॥ ५० ॥ तां पारदृश्वरी वागीश्वरीमिव कलाम्बुधेः। . राजा निरीक्ष्य दीनारलक्षं तद्गुरवे ददौ ॥५१॥ तामुवाचाऽन्यदा साक्षाद्भूय नितिदेवता । भाविनः शान्तिनाथस्य पूज्येयं प्रतिमा त्वया ॥५२॥ देवी तिरोऽभूदित्युक्त्वा प्रतिमां दवदन्त्यथ । अजस्रं पूजयामास निवेश्य सदने निजे ॥ ५३॥ समं सखीभिः क्रीडन्ती सा लताभिरिवालिनी । अनङ्गरतिविश्रामोपवनं प्राप यौवनम् ॥ ५४॥ .. दन्तीव दवदन्ती तामन्यूनकुचकुम्भिनीम् । निरीक्ष्य पितरौ चित्तं चक्रतुस्तद्विवाहने ॥ ५५ ॥ दूयेतां पितरौ चित्ते तद्योग्यवरचिन्तया । दवदन्ती बभूवोचैरष्टादशसमाप्रमा ॥ ५६ ॥ योषितां स्यादनूढानां प्रौढानां हि स्वयंवरः। विचिन्त्येत्याऽऽदिशद् राज्ञामाहानाय नरान् नृपः॥५७॥ भूपा भूपालपुत्राश्च तत्र लावण्यशालिनः । एकैकशोऽधिका लक्ष्म्या त्वरितास्तत्र चाययुः॥५८॥ तत्र दूतसमाहूतो निषधोऽपि समाययौ। . . पुत्रावपि समं तेनाऽऽजग्मतुर्नलकूबरौ ॥ ५९ ॥ ..