________________
मल्लिनाथमहाकाव्येधन्यो नाम सुतो जज्ञे धन्यंमन्यः पिता यतः ॥२०॥
. (युग्मम् ) वीरमत्या अपि प्राणी प्रच्युत्य विबुधालयात् । धन्यस्य गृहिणी जज्ञे धूसरी नामधेयतः॥ २१ ॥ धन्योऽथ चारयाश्चके महिषीरनुवासरम् । वर्षाकालोऽन्यदा कालः प्रोषितानां समाययौ ॥२२॥ वर्षत्यपि घने हर्षाद् महिषीचारणोद्यतः। विभ्राणश्छत्रकं मूर्ध्नि धन्यो वन्यामथाऽभ्रमत् ॥२३॥ कायोत्सर्गस्थितं साधुमेकमेकपदे स्थितम् । वृष्टिशैत्येन सर्वाङ्ग कम्पमानं ददर्श सः ॥ २४ ॥ तं दृष्ट्वा सकृपश्छत्रं तस्य मूर्धन्यधारयत् । वृष्टिकष्टमजानानः सुखेन स मुनिः स्थितः ॥२५॥ वृष्टेन व्यरमद् मेघः कायोत्सर्गाद् मुनि च । छत्रधारणतो धन्यो, बद्धस्पर्धा इवात्र ते ॥ २६ ॥ मेघेऽथ विरते साधुः कायोत्सर्गमपारयत् । प्रणम्य चांहिसंवाहपूर्वकं तमुवाच सः ॥ २७॥ महर्षे ! कुत आयासीः किल कालेऽत्र पङ्किले ?। पाण्डुदेशादिहायातो यास्यामि च गुरुं प्रति ॥२८॥ प्रोचे धन्यो मुनि नत्वाऽध्यारोह महिषं मम । मुनिराह न जीवेषु समारोहन्ति साधवः ॥ २९ ॥ धन्योऽथ महिषीं दुग्ध्वा दुग्धकुम्भमुपानयत् । पारणं कारयाश्चके वक्रेतरमना मुनिः ॥ ३० ॥ वर्षाकालमतिक्रम्य पोतनात् स मुनिर्ययौ । धन्योऽपि सह धूसर्या विशिष्टश्रावकोऽभवत् ॥३१॥ दीक्षां गृहीत्वा सप्ताब्दी पालयित्वा समाहितौ । विपद्य युग्मधर्माणी जाती हैमवतेऽथ तौ ॥ ३२॥ ततो मृत्वाऽनातरौद्रध्यानसन्धानबन्धुरौ ।