________________
षष्ठः सर्गः ।
पापदृद्ध्यै सोऽन्यदाऽचालीत्सकलत्रः पुराद् बहिः । मुनिं वीक्ष्य समायान्तमशकुनममन्यत ॥ ७ ॥ पृथक्कृत्य द्रुतं सार्थाद् नीत्वा राजकुले ततः । घटिका द्वादश द्वाभ्यां ताभ्यामृषिरखेदि सः ॥ ८ ॥ ताभ्यां कृपावशात् पृष्टः कुत आगाः क यास्यसि ? | तेनोक्तमष्टापदाद्रौ याता विम्बानि वन्दितुम् ॥ ९ ॥ वियोजितो भवद्भयां च सार्थादस्मि शुभाशयौ ! | श्रुत्वेति लघुकर्मत्वात् तौ कोपं जहतुः क्षणात् ॥ १० ॥ ततो जीवदयामूलं धर्ममाख्यद् महामुनिः । धर्माभिमुख्यं तौ प्राप्तौ प्रत्यलाभयतां च तम् ॥ ११ ॥ ताभ्यामनुमतः सोऽष्टापदं प्राप ततो मुनिः । आईतं तौ पुनर्धर्म पालयामासतुश्चिरम् ।। १२ ।। निन्येऽन्यदा वीरमती धर्मस्थैर्यप्रवृद्धये । देव्या शासनवाहिन्याऽष्टापदे पुण्यसंपदे ॥ १३ ॥ प्रतिमां पूजयन्ती सा परमानन्दमाप च । वन्दित्वा पुनरप्यागात् स्वपुरे देवतावशात् ॥ १४ ॥ सा विंशतिमाचाम्लानि चक्रे जिनं जिनं प्रति । चतुर्विंशतिसंख्यानि तिलकान्यप्यकारयत् ।। १५ ।। अन्यदाऽष्टापदे गत्वा स्नात्रपूजापुरस्सरम् । प्रतिमानां ललाटेषु तिलकानि व्यधत्त सा ॥ १६ ॥ दवा दानं च साधूनां तपस्तदुददीपयत् । कृतार्थाऽथ प्रनृत्यन्ती चेतसाऽगाद् निजं पुरम् ॥१७॥ पालयित्वाऽऽर्हतं धर्मं समाधिमरणेन तौ ।
पूर्णकाले देवलोके दाम्पत्येन बभूवतुः ॥ १८ ॥ प्रच्युत्य मम्मुणो जम्बूद्वीपे भरतमण्डने । बहलीसंज्ञके देशे पुरे पोतननामनि ॥ १९ ॥ धम्मिलाभाभीरपत्नीरेणुकाकुक्षिसम्भवः ।
२१
१६१