SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ मल्लिनाथमहाकाव्ये खेलन्ति कौशिकास्तावद् यावन्नोदेत्य हर्षति ॥ ३३ शी इति विनयविनम्रा भक्तिभाजो नरेन्द्रात्रिभुवनगुरुमेनं मल्लिनाथं प्रणम्य । मरुदधिपतिपृष्ठे पृष्ठतामादवाना जिचवचनवितानं श्रोतुपुत्का न्यषीदन् ||३३२|| इत्याचार्य श्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते महाकाव्ये विनयाङ्के दीक्षाकेवलज्ञानोत्पत्तिसंकीर्तनो नाम पञ्चम सर्गः । १६० अर्हम् अथ षष्ठः सर्गः । यो लङ्केश विलोपनत्रतधरो रौद्रं च धर्म भजन् संप्राप्तः सकलत्र एव तपसे वातानुमत्या बने । राज्यमाज्यसुखोत्सवस्य विमुखो रामावतारो जिनः स श्रीमल्लिरपौरुषेयचरितः पायादपायाज्जगत् ॥ १॥ अथारभत विश्वेशः क्लेशनाशाय देशनाम् । गिरा संदेहहारिण्या पञ्चत्रिंशद्गुणस्पृशा ॥ २ ॥ भो भो भव्याः ! भवाम्भोधौ भ्रमद्भिर्नित्यमङ्गिभिः । दुष्प्रापमेव मानुष्यं समिलायुगयोगवत् || ३ || कथञ्चित् तत्र लब्धेऽपि सम्यक् तत्त्वं सुदुर्लभम् । देवतत्त्व- गुरुतत्त्व-सम्यक्तत्वस्वरूपभृत् ॥ ४ ॥ एवं स्वरूपं सम्यक्त्वं ये रक्षन्ति दिशन्ति च । परेषां दवदन्तीव लभन्ते परमं पदम् ।। ५ ।। उपाष्टापदमस्त्यत्र भारते सङ्गरं पुरम् । मम्मणस्तत्र भूपोऽभूद् वीरमत्यस्य वल्लभा ॥ ६ ॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy