________________
१५९
पञ्चमः सर्गः ।
दिव्यध्वनि रसास्वादलुब्धास्त्वत्पादपङ्कजम् । तदेकतानहृदयाः सेवन्ते सततं मृगाः ।। ३१८ ॥ स्यूते इव करैरिन्दोः फेनैरिव करम्बिते । तव पार्श्वे जगन्नाथ ! रेजाते चामरे इमे ॥ ३१९ ॥ तव सिंहासनं नाथ ! धत्ते सुरगिरिश्रियम् । अप्रकम्प्यं परैः कामं चारुकल्याणभाजनम् ॥ ३२० ॥ भाति भामण्डलं पृष्ठे पिण्डीकृतमहः सुरैः । उदयद्वादशादित्य तेजः स्तोमविडम्बकम् || ३२१ ॥ श्रीमल्लेर्भुवनाधीशदिवि दुन्दुभिवादनम् । विधत्ते मोहनीयादिमलिम्लुचपराभवम् ॥ ३२२ ॥ ये स्युत्रिजगन्नाथ ! जम्बूद्वीपे यदीन्दवः | तेनोपमीयते छत्रत्रितयं मूर्ध्नि भासुरम् || ३२३ ॥ स्तुत्वेति विरते शक्रे श्रीकुम्भः पृथिवीपतिः । विरचय्याञ्जलीबन्धं स्तुतवानिति भक्तिभाक् ॥ ३२४॥ धन्य ईक्ष्वाकुवंशोऽयं प्रसिद्धोऽजनि भारते । यस्मिन् भवादृशा जाताः सुवृत्ता मौक्तिकोपमाः॥ ३२५ ॥ येन स्मरेण तीर्थेश ! कुम्भदासीकृतं जगत् । सत्वयोन्मूलितो जीर्णपादप इव वात्यया ॥ ३२६॥ स्तुत्वेति सत्यमर्हन्तं श्रीकुम्भो मुदिताशयः । अतृप्त इव तीर्थेशवक्त्र जीवमैक्षत || ३२७|| सांवत्सरिकदानान्तं विज्ञाय स्वपुरीं तदा । विहाय षडपि प्राप्ता भूभुजस्ते शमादृताः ।। ३२८ ॥ स्पृष्ट्वा भूमीतटं मूर्ध्ना योजिताञ्जलयोऽखिलाः । एवमारेभिरे स्तोतुं गिरा धीरप्रशान्तया ।। ३२९ ॥ पूर्वस्मिन् जन्मनि स्वामिन्! तारकोऽसि यथा भृशम् । तदेदानीं विवाहस्य क्षणं देशनया नया ॥ ३३० ॥ भवप्रतिभयं नष्टं तव मूर्तिविलोकनात् ।