________________
मल्लिनाथमहाकाव्ये
प्राकारे मध्यमे चक्रुः पूर्वोदीच्यां यथास्थिति || ३०५|| धनुःशतत्रयं प्रांशुं चैत्यतुं पत्रलं ततम् । तृतीयशालमध्यो विदधुर्व्यन्तरामराः ||३०६ ||
१५८
:
( युग्मम् )
ततः सिंहासनं दिव्यं चारुणी चामरे अपि । त्रैलोक्यविभुताशंसि शुभ्रं छत्रत्रयं सुराः ॥३०७॥ सर्वाश्वर्यैरिव कृतं निर्मितं मङ्गलैरिव । संकीर्णामिव लक्ष्मीभरिवावृतम् ॥ ३०८ ॥ जगच्चित्रैरिव व्याप्तं निधानैरिव सेवितुम् । चक्रे समवसरणं शरणं पर्वणामिव ॥ ३०९ ॥ एकत्र दिव्यरम्भोरुकरताडितदुन्दुभीः । एकत्र पञ्चसुग्राममपश्चस्थिर किन्नरम् ॥ ३१० ॥ एकत्र लेप्यललनाकरकुम्भगलज्जलम् |TM एकत्र रममाणस्वः कुमारकृतहुंकृति ।। ३११ ॥ एकत्र स्वर्वधूलो हल्ली सककृतोत्सवम् । एकत्र किन्नरीगानदत्तश्रवणकिन्नरम् ।। ३१२ ॥ (पञ्चभिर्द्वितीयश्लोक मध्य क्रिया कुलकम् ) मुहुः संचार्यमाणेषु लक्ष्मीलीला गृहेष्विव । स्वर्णमयेषु पद्मेषु न्यस्य पादौ सुकोमलौ || ३१३ ।। पुरस्ताद् बन्दिभिरिव त्रिर्जयेति विभाषकैः । अमरैर्दर्यमानाऽध्वा देवीभिर्गीतमङ्गलः ॥ ३१४ ॥ पूर्वद्वारात् प्रविश्योच्चैश्चैत्यद्रोश्च प्रदक्षिणाम् । विदsarकार्याणि जिना अपि वितन्वते ।। ३१५ ।। नमस्तीति वचो धीरधीरमुदीरयन् । दिव्यसिंहासने तस्थौ कुम्भाङ्कः कुम्भभूर्जिनः ॥ ३१६॥ कन्दर्पजयन नाथ ! त्वां दृष्ट्राऽशोकपादपः । मनृत्यति चलैः पत्रैः सलीलमित्र पाणिभिः ॥ ३१७॥