________________
१५६
मल्लिनाथमहाकाव्ये
चारित्रं जगृहे स्वामी मुक्तिसंवननौषधम् ॥२७८॥ मनःपर्यायसंज्ञं च ज्ञानं भर्तुरभूत् तदा । केवलज्ञानलाभस्य सत्यङ्कार इवानघः ।। २७९ ।। नारकाणामपि सुखमाकस्मिकमजायत । सौदामिन्या इव द्योतः क्षणं च नरकेऽजनि ॥ २८०॥ त्रिशतीप्रमिता भूपास्त्रिशतीप्रमिताः स्त्रियः ।
संवेगाम्भः कृतस्नानाः प्राब्रजन्ननु तीर्थपम् ॥ २८१||. ततः प्रदक्षिणीकृत्य श्रीमल्लिस्वामिनं जिनम् । वाचा पीयुपहारिण्यारेभे स्तोतुं पुरन्दरः ॥ २८२॥ नमो मल्लिजिनेशाय कुमारब्रह्मचारिणे । वैराग्यपयोदय क्लेशादेशाभिवारिणे ॥ २८३॥ .. कर्मभिस्त्वमसंस्पृष्टः पद्मपत्रमिवोदकैः ।
तव संसारवासोऽपि मुक्तिवास इवाऽजनि ॥ २८४ ॥ मैत्र्यादिवासनापूतं दूतं शाश्वतशर्मणि ।
P
नाभिभूतं मदेनापि स्मरामि तव शासनम् ॥ २८५ ॥ स्वामिन् ! विश्वोपकाराय तपस्यां प्राप्तवानसि । मार्गदुः पान्थसार्थाय फलैः फलति पेशलैः ॥ २८६ ॥ त्वजित त्रिजगन्नाथाऽनङ्गत्वं दधते स्मरः । दग्ध दुग्धेन यो लोके सः फूत्कृत्य पयः पिवेत्॥ २८७॥ इत्थं जगत्पतिं स्तुत्वा भक्तिमहः पुरन्दरः । अनुनाथं धरापीठं त्रिर्नमो विदधेतराम् || २८८ || "अथ च्छत्रायमाणस्याऽशोकद्रोः प्रवरे तले । अतिष्ठत् प्रतिमागां श्री जिनो लम्बिभुजद्वयः || २८९|| अप्रमत्तः संयतादिगुणस्थानानि तत्क्षणम् । आश्रित्य प्रातिकर्माणि पुप्लोष ध्यानपावके ।। २९०॥ तस्मिन्नेव क्षणे विश्वभर्तुर्विश्वप्रकाशकम् । उत्पेदे केवलज्ञानं सर्व पर्यायतन्त्रवित् ।। २९१ ।।