________________
पञ्चमः सर्गः। १५५ कुमुदामोदसंमत्तरोलम्बरवडम्बरैः। अर्थैरिव महाकाव्यं सूचितस्मरकेतकैः॥ २६५ ॥ एलालवङ्गककोलनागरङ्गादिभूरुहैः। . सदाशापसृतैः पूर्णमिव साधुमनोरथैः ॥ २६६ ॥ अभ्रलिहानोकहेषु बद्धदोलं कुमारकैः । मुखासवाधैः पौरीभिः पूर्यमाणद्रुदोहदम् ।। २६७ ॥ चाल्यमानलताचक्र क्रीडया पौरबालकैः । उच्चीयमानसुमनोमालिनीभिः कराम्बुजैः ।। २६८ ॥ मजुगुञ्जस्पिकीनादैराबदिव जगद्गुरुम् । महोद्यानमथ पाप श्रीमन्मल्लिजिनेश्वरः ।। २६९ ॥ अथामयाग्छिविकारत्नात्यांतादिव महाभुजः । उत्ततार स्वबाहुभ्यां तरीतुं भववारिधिम् ॥ २७० ॥ उज्झाञ्चकार निःशेषं नेपथ्यादि जगद्गुरुः। निर्मोकमिव नागेन्द्रो मिथ्यात्वमिव तत्त्ववित् ॥२७॥ अदृष्यं देवदूष्यं स्वाराजस्त्रिजगदीशितुः। स्कन्धे चिक्षेप सुज्ञानाप्रयानमिव मूर्तिमत् ॥२७२।। पञ्चविंशतिधन्वोच्चः कृतषष्ठमहातपाः । मार्गशुक्लस्यैकादश्याः पूर्वाह्न भेऽश्वयुज्यथ ।। २७३ ।। श्रीमन्मल्लिजिनाधीशः पञ्चभिर्मुष्टिभिः स्वयम् । केशानुत्पाटयामास मूर्तिमद्विषयानिव ॥ २७४ ।। प्रत्यैच्छत् त्रिदशाधीशः स्वामिदत्तप्रसादवत् । अब्दमुक्तोम्बुवत् पृथ्वी निजचेलाञ्चलेन सः॥२७५।। अद्रिभित्स्वामिनः केशान् कज्जलश्यामलश्रियः । प्राक्षिपत् क्षीरपाथोधौ निर्मलीकरणाय वा ॥२७६॥ वेगात् तत्रैत्य सद्भक्तिरू/कृतकरद्वयः । तुमुलं वारयामास वासवो नटवद् नृणाम् ॥२७७॥ उक्त्वा सिद्धनमस्कारं सामायिकमथोच्चरन् ।