________________
पञ्चमः सर्गः।
१४९ तेन रोधेन कुम्भोऽपि खिमाऽऽखिन्नः कदाचन। : चिन्तासन्तानवान् जज्ञे हृतपाणिस्थवित्तवत् ॥१८५॥ उद्विग्ना इव किं तातपादास्तिष्ठन्ति साम्प्रतम् ? । इत्यूचे भगवान् मल्लियोजिताञ्जलिकुड्मलः॥१८६॥ उद्वेगकारणं रोधलक्षणं क्षितिनायकः । सर्वमाख्यत् पुरो मल्ले सद्गुरोरिव भाविकः॥१८७॥ मल्लिरप्यवदत् तात ! युगपद् गूढपूरुषैः। युष्मभ्यं दास्यते मल्लीत्युक्त्वा सर्वान् प्रबोधय॥१८८॥ आकार्या मम ते सर्वे ततोऽपवरकेष्वपि। ... प्रच्छन्नाः सायमानेयाः स्वल्पलोकपरिच्छदाः ॥१८९॥ तथैव विहिते सायं राजानो मुदिताशयाः। उपागताः पुरो मल्ले प्रतिमां वीक्ष्य विस्मिता॥१९॥ मल्लीति ददृशे दिष्टया ध्यायन्त इव चेतसि । कृतकृत्यममन्यन्त स्वात्मानं सिद्धमन्त्रवत् ।।१९१॥ पृष्ठद्वाराविभागेन प्रतिमाया नृपात्मजा। उदघाटयत् प्रतिमान्तःस्थितं तालुचीवरम् ।। १९२॥ निक्षिप्तकुथितग्रासगन्धः प्रासरदुच्चकैः। दुःसहो लशुनस्येव सर्वतोऽपसरजनः ॥ १९३॥ अहिगोश्वानमृतकदुर्गन्धादपि दुःसहः ।। गन्धः षण्णामपीशानां व्यानशे नासिकापुटीम् ।।१९४॥ तद्न्धाच्छातकुन्ताग्रमहारादिव कातराः। अधोमुखा अजायन्त मृतप्रियसुता इव ॥ १९५ ॥ तनिवाचो विलोक्योचैरूचे मल्लिर्जगद्गुरुः। किं यूयं न्यङ्मुखा जाता भासतशिरसो यथा ॥१९६॥ * सोडुं न शक्नुमो नूनममुं दुर्गन्धमुच्चकैः।
एवं बभाषिरे वस्त्रप्रान्तैः पिहितनासिकाः ॥१९७।। तान् स्वामी प्रत्युवाचेदं प्रतिबोधपरायणः ।....