________________
पञ्चमः सर्गः -
एवमाख्याय विरतां तामुदीक्ष्य नृपोऽवदत् । भगवत्यखिला दृष्टा मही सागरमेखला ।। १३५ ।। ईदृगन्तःपुरं मातः ! कापि दृष्टं कचिच्छ्रुतम् ? | वाशा दूरदृश्वानो यद्भवन्ति व्रतस्थिताः ।। १३६ ॥ विलक्षं विस्मितं कृत्वा चोक्षोचे भूभुजं प्रति । कूपमण्डूकसंकाशो राजन् ! त्वमसि भूतले ||१३७|| या श्रीममिथिलापुर्वी कुम्भराजस्य पुत्रिका । श्रीमल्लिस्वामिनी देवललनाललिताकृतिः ।। १३८ ॥ तस्याः पादद्वयाङ्गुष्ठसंपदः पुरतस्तव । इदमन्तःपुरं सर्वमङ्गारादपि हीयते ।। १३९ ।। शरीरलक्ष्मीः सा काऽपि यस्या उपमितिः कचित् । 'न विद्यते त्रिभुवने किमन्यत्परिगद्यते १ ।। १४० ॥ जितशत्रुरिति श्रुत्वा प्राग्जन्मस्नेहमोहितः । उपकुम्भमयुकाऽसौ तत्कृते दूतमग्रिमम् ॥ १४१ ॥ ॥ इति श्रीमल्लिस्वामिप्राग्भवषष्ठ मित्राऽभिचन्द्रोत्पत्तिः ॥ इत्थं प्राग्जन्ममित्राणां पण्णावपि महाधियाम् । समागुर्युगपद् दूता मिथिलायां महापुरि ।। १४२ ।। ज्ञानत्रयधरः स्वामी मल्लिस्तेषु कृपापरः । एवं विनिर्ममौ यस्मात्प्रतिबोधोद्यता जिनाः ॥ १४३ ॥ अशोकवनिकायां तु स्वर्णभित्तिविकखरे । । सौधमध्यापवर के रनपीठमनोहरे ।। १४४ ॥ आत्मनः सदृशीं हैमीं प्रतिमां सदलङ्कृताम् । इन्द्रनीलदृशं सोमां विद्रुमाधरपल्लवाम् ॥ १४५ ॥ कज्जलश्यामलकचां प्रवालारुणपाणिकाम् । सद्वर्णा कलशाकारशिरसं लटभभ्रुवम् ॥ १४६ ॥ आजानुदोर्युगां मध्यतुच्छां स्वच्छतनुद्युतिम् ।
१९
१४५