________________
१४४
मल्लिनाथमहाकाव्येत्रिदण्डमण्डितकरकोडा काषायिताम्बरा। शौचाय दधती दर्भसगर्भी जलकुण्डिकाम् ॥ १२२ ॥
(युग्मम् ) साऽन्यदा कुम्भभूपस्य कन्यान्तःपुरमुत्तमम् । अस्खलितगतिरगात् सा वात्येव निरत्यया ॥१२३॥ श्रीमल्लिस्वामिपादान्ते सोपाविक्षद् यथाविधि । निजं दर्शयितुं धर्म दम्भसंरम्भया गिरा ॥ १२४॥ जलशौचमयो धर्मस्तया ख्यातः सविस्तरः। तस्याः पुरः पुराणस्य वाक्यैर्वाक्यविधिज्ञया ॥१२५॥ अथ प्रोवाच श्रीमल्लिधर्मोऽस्ति जलसङ्गमात् । जितं तर्हि झोंके जलस्थाननिवासिभिः ॥१२६॥ सैवं शैवं निराचक्रे शौचधर्म सुयुक्तिभिः। मुखमर्कटिकां दत्त्वा तां चेट्यो निरवासयन् ॥१२७॥ भवेद् यथेयं दुःखार्ता सपत्नीजनमध्यगा । तथा वेगात् करिष्यामि सा यान्तीति व्यचिन्तयत् ।। एवं विचिन्त्य दर्पणाध्माता निर्गत्य पूर्वरात् । काम्पिल्यनगरं पाप पञ्चालमुखमण्डनम् ॥ १२९ ॥ जितशत्रुः सभाप्राप्तां तां प्रीक्ष्य स्मितचक्षुषा । विष्टरं दापयामास पूजनीया हि लिङ्गिनी ।। १३० ॥ महत्या प्रतिपत्त्या सा पूजिता जगतीभुजा ।। औचित्याचरणं सन्तः शिक्ष्यन्ते किमु तादृशाः॥१३१॥ सा प्रोदिताशीर्वचना तदासनमशिश्रियत् । आशीर्मूलधनं यस्मादक्षयं लिङ्गधारिणाम् ॥ १३२ ।। साऽवाद्यत महीभा महाभक्तितरङ्गितम् । नृपप्राणप्रियाभिश्च, पतिमार्गाऽनुगाः स्त्रियः ॥१३३॥ जलशौचपरो धर्मो राजन् ! राजीवलोचने ! । न भूतो न च संभावी प्रेत्याऽमुत्र प्रियङ्करः ॥१३४॥