________________
पञ्चमः सर्गः।
१४३
किन्तु चित्रकृता पुत्र ! कृता भ्रान्तिप्रदा मुदा॥१०९॥ अथ क्रुद्धोऽनुजो मल्लेस्तस्य चित्रकृतो भृशम् । निकृत्य दक्षिणं पाणिं स्वदेशाद् निरवासयत्॥११०॥ विष्वग् भ्राम्यन् महीपीठं गतवान् हस्तिनापुरे । अदीनशत्रुभूपाय नमश्चक्रे कृताञ्जलिः ॥ १११ ॥ खवृत्तान्तं यथाभूतं मूलादारभ्य भूभुजः। श्रीमल्लिस्वामिनीरूपमेवं वर्णितवानथ ॥ ११२ ॥ नदीनां स्वर्धनी यद्वत्सुमनस्वपि मालती । यद्वत् कामगवी गोषु तद्वद् रूपवतीषु सा॥११३॥ न दृष्टा येन सा मल्लिमनाकेकिघनाघनः । तस्य नेत्रद्वयं डित्थडवित्थयुगमश्चति ॥११४॥ यदीयं लिह्यते रूपं लोचनैश्चुलुकैरिव । यदीयं वय॑ते चारुचरितं कविकुञ्जरैः ॥११५॥ एवं तद्वर्णनां कृत्वा चित्रकृच्चित्रसंस्थिताम् । अर्चामदर्शयद् मल्लेदशोरायुष्यकारिणीम् ॥११६॥ वीक्ष्येमा विस्मितः पूर्वस्नेहमोहितमानसः। ... तद्याचनाय दूतं खं प्रैषीदुपमहीपति ॥११७॥ ॥ इति श्रीमल्लिस्वामिपूर्वभवपर+मित्रपञ्चमवैश्रमणोत्पत्तिः ॥ इतश्च जम्बूद्वीपेऽस्मिन् काम्पिल्यनगरे वरे । अभिचन्द्रस्य जीवोऽपि च्युत्वा तस्माद्विमानतः॥११८॥ जितशत्रुर्यथार्थाख्यः समभूत्पृथिवीपतिः । यत्प्रतापाद् विलीयन्ते द्विषः स्त्यानाज्यपिण्डवत्॥११९॥
___(युग्मम् ) धारिणीप्रमुखास्तस्य सहस्रं प्राणवल्लभाः। अगण्यपुण्यलावण्या भूचर्यो देवता इव ॥ १२०॥ इतोऽभूद् मिथिलापुर्या चोक्षा नाम विचक्षणा। मन्त्रकार्मणरत्नानां रोहणाचलचूलिका ॥ १२१ ॥