________________
१४२ मल्लिनाथमहाकाव्ये
सद्वर्णैर्वर्णयामासुहर्षोत्कर्षमुपागताः ॥ ९७ ॥ आस्यस्य पुरतो यस्याः शङ्के दासायते शशी । एतावतैव तद्रूपमसरूपं निरूप्यते ॥ ९८ ॥ पूर्वस्नेहातिरेकेण तद्रूपश्रवणादपि । श्रुत्वेति तां वरीतुं तु विशिष्टं विससर्ज सः ॥ ९९ ।।
॥ इति श्रीमल्लिस्वामिपूर्वभवचतुर्थवसुमित्रोत्पत्तिः ॥ जीवो वैश्रमणस्याऽथ वैजयन्तात् परिच्युतः। अदीनशत्रुनामाऽभूद् भूपालो हस्तिनापुरे ॥१०० ॥ इतश्चश्रीमल्लेरनुजो मल्लो नान्ना यौवनमागतः । आजूहवचित्रकरान् लेप्यकर्मविशारदान् ॥ १०१ ॥ भित्तिर्विभज्य तेभ्योऽसौ गोत्रिभ्य इव सम्पदः । सचित्रं कारयामासोन्मीलितं भागवर्तनः ॥ १०२ ॥ तेष्वेकश्चित्रकद्वर्यो लब्धदैवतसद्वरः। एकाङ्गदर्शनेनाऽपि यथावस्थितरूपवित् ॥ १०३॥ अन्तर्जवनिकं पादाङ्गुष्ठं मल्लेनिरीक्ष्य सः। यथावद्रूपमलिखत् सर्वाङ्गोपाङ्गशोभनम् ॥ १०४ ॥ मल्लस्तत्राऽगमत् क्रीडारसिको मित्रसंयुतः। श्रीमल्लिस्वामिनीरूपं चित्रस्थमवलोकयत् ॥ १०५॥ साक्षात्स्वसारमूर्ध्वस्थां मन्यमानस्तथा पदैः। लज या प्रसरत्कुल्याजलवत् सेतुहेतुना ॥ १०६॥
(युग्मम् ) निवृत्तं वेगतो धात्री दृष्टिपात्रीचकार तम् ।। कथं पुत्र ! निवृत्तोऽसि त्वरितं त्वरितैः पदैः॥१०७॥ कुमारोऽप्यब्रवीदेवं मातमें भगिनी पुरः। ऊर्ध्वा समस्ति खेलामि कथं मित्रैरहं वृतः ॥१०८॥ सम्यग निरूप्य धान्योचे नेयं मल्ली तव स्वसा।