________________
पञ्चमः सर्गः [:
१४१
यः स्वर्गेऽपि न संभाव्यः किं पुनः पृथिवीतले । || ८४ ॥ जलधेर्जलधिर्यद्वत् सुधायाश्च सुधा यथा । मल्लिरूपस्य ताद्रूप्यं मल्ले रूपे व्यवस्थितम् ॥ ८५ ॥ मर्त्यमण्डलपाथोधेः स्त्रीरत्नं पृथिवीतले । तदेवोत्पन्नमाभाति जगन्नयनकार्मणम् ॥ ८६ ॥ श्रुत्वेति प्राग्भवस्नेहाद् भूमिनाथेन रुक्मिणा । अप्रेष्यततरां दूतो निसृष्टार्थो धियां निधिः ॥ ८७ ॥ ॥ इति श्रीमल्लिस्वामि पूर्वभवतृतीयमित्र पूरणोत्पत्तिः ॥ इतश्च वसुजीवोsपि वैजयन्तविमानतः ।
वाणारसीपुर्या शङ्खो नाम नृपोऽजनि ॥ ८८ ॥ श्रीमल्लेः कुण्डलद्वन्द्वं तद्दिव्यं दैवयोगतः । तदा विजघटे कामं रामणीयकमन्दिरम् ।। ८९ ॥ राज्ञा संघट्टनायाsस्य मीलिताः स्वर्णकारकाः । तद्वीक्ष्य शून्यमनसोऽभूवन् संज्ञीतरा इव ॥ ९० ॥ देव ! दिव्यमिदं दीप्यद् नो संघट्टयितुं क्षमाः । दिव्यानां हि पदार्थानां दिव्या एवं विधायिनः ॥ ९१ ॥ ततो निर्वासिता राज्ञा रुष्टेन स्वर्णकारकाः । नृपाप्रसादादीदृक्षं न दूरे पुरवासिनाम् ।। ९२ ।। से च वाराणसीं गत्वा प्रणमुः शङ्खभूभुजम् । कौतस्कुता इति क्ष्मापः पप्रच्छ मधुराक्षरम् ॥९३॥ देवा मी मिथिलापुर्यां वासिनः स्वर्णशिल्पिनः । बिज्ञानवल्लरीजालमातृकालघनाघनाः ॥ ९४ ॥ वसतां तत्र चास्माकं पूर्वजानां महीपते ! । वेणयः सप्त संभूताः स्वर्णताडनभाजिनाम् ।। ९५ ॥ मिथिलास्वामिना कुम्भराज्ञा कुण्डलयोजने । अनीशा ईश ! सर्वेऽमी पूर्या निर्वासिता हठात् ॥ ९६ ॥ कुण्डलप्रक्रमप्राप्तं श्रीमल्ले रूपमुत्तमम् ।