________________
पञ्चमः सर्गः ।
१३९
मेह चेष्टितं सर्वं क्षमस्व करुणानिधे ! ॥ ५८ ॥ शिलोच्चय इवासि त्वं मनागपि न कम्पितः । मत्तस्य दन्तिनों दन्तघातेनेव मया ननु ॥ ५९ ॥ दिव्यं कुण्डलयोर्द्वन्द्वं तस्मै दत्त्वा स नाकसद् । संहृत्य मेघवातादि तिरोऽभूद भ्रगेन्दुवत् ।। ६० ।। क्षेमेणाऽन्नयो वार्धि तीर्त्वा गोष्पदवत् क्रमात् । गृहीताsशेषभाण्डौघो नगरीं मिथिलां गतः ॥ ६१ ॥ एकं श्रीकुम्भभूपस्य प्राभृते कुण्डलद्वयम् । ददेऽनयः पोतवाहकः सादराशयः ।। ६२ ॥ तदेवं पृथिवीनाथस्तां दिव्यां कुण्डलद्वयीम् । दुहित्रे नेत्रमित्रायै श्रीमत्यै मल्लये ददौ ॥ ६३ ॥ अर्हन्नयाय पात्रज्ञो दत्त्वोच्चैः पारितोषिकम् । विससर्ज महीपेन्दुर्यथाऽम्बु जलधिर्घनम् ॥ ६४ ॥ क्रीतविक्रीतनिःशेषभाण्डश्चम्पामुपागतः । चन्द्रच्छायनरेन्द्रस्य सभामण्डपमभ्यगात् ।। ६५ ॥ चकार प्राभृते श्रेष्ठी द्वितीयां कुण्डलद्वयम् । पदार्थाः खलु युज्यन्त उत्तमानामिहोत्तमाः ॥ ६६ ॥ राजोचेऽर्हन्नय ! श्रेष्ठिन् ! कुतोऽदः प्राप्तमीदृशम् ? | नेह मर्त्यतले भाविकान्त्या जितदिवाकरम् ॥ ६७॥ आदौ समुद्रवृत्तान्तं विधाय श्रेष्ठिनन्दनः । अन्ते वितत्य चम्पाया आगमं सर्वमब्रवीत् ।। ६८ ।। केयं मल्लीति पप्रच्छ चन्द्रच्छायक्षितीश्वरः । अपूर्वश्रवणे यत्नः किं सकर्णस्य नो भवेत् १ ॥ ६९ ॥ अथाऽसौ न्यगदच्छ्रेष्ठी देव ! श्रीमिथिलापुरि । विजयी श्री कुम्भभूपाल इक्ष्वाकुकुलभूषणम् ॥ ७० ॥ तत्सुता जननेत्राणामध्वगानामिव प्रपा । मल्लिमल्लिस्मिता चारुगुणवल्लीव जङ्गमा ॥ ७१ ॥