________________
मल्लिनाथमहाकाव्ये
अमुष्माद् विधुरादाशु देवि ! तारय तारय ।। ४५ । एवंरूपा विदधिरे उपयाचितसंहतीः । आर्ता हि देवतापादभक्तिं विदधतेतराम् ॥ ४६ ॥ इत्युपद्रवमालोक्य स्मृतपञ्चनमस्कृतिः । पवित्रासनमासीनः प्रत्याख्यानसमाहितः ॥ ४७ ॥ वीतरागं मनोऽम्भोजे विदधानः शुभाशयः । श्रावकोऽर्हन्नयोऽस्मार्षीदनित्यादिकभावनाम् ॥४८॥ ( युग्मम् )
अमीदृग्विधं वीक्ष्य क्षोभाय सुरपांसनः । 'विचक्रे रक्षसो रूपं कालरात्रिसहोदरम् ॥ ४९ ॥ मुखज्वालास्फुलिङ्गोच्चैर्द्या खद्योतमयीमिव । कुर्वन् हास्यच्छटापातैः क्षमां फेनमयीमिव ॥ ५० ॥ पाददर्दुरिकाघातैरधः क्षोणीं क्षिपन्निव । उच्चैः कलकलारावं तन्वन् प्रलयरुद्रवत् ॥ ५१ ॥ उद्वहन् कर्तिकां पाणौ प्रेतभर्तुः प्रियामिव । ऊचे नक्तंचरः क्रूरो रे रे श्रावकपांसन ! ॥ ५२ ॥ मुञ्च धर्ममिमं मुञ्च नो चेत् कर्तिकया मुया । पातयिष्यामि ते मुण्डमखण्डं फलवत्तरोः ॥ ५३ ॥ बलाद् बलिं करिष्यामि यादसां त्वां दुराशय ! | नायं धर्मोऽलो भावी पततोऽम्भोधिपाथसि ॥५४॥ आत्मानं श्रावकत्वेन भाषमाणः पदे पदे । कुरुषेऽम्बुनिधो यात्रामहो ! निर्घृणधूर्वर ! ॥ ५५ ॥ एवं विभाषमाणेऽस्मिन्नर्हन्नय उपासकः । स्वध्यानाद् नाऽचलच्छैलः किं वातेन प्रकम्पते ॥५६॥ भद्र ! सौधर्मशक्रेण संस्तुतोऽसीति पर्षदि । त्रिदशैरपि स्वधर्मादचाल्योऽर्हन्नयः सुधीः ॥ ५७ ॥ तत्प्रशंसामिमां श्रुत्वा परीक्षार्थमिहाऽऽगमम् ।
१३८