________________
पञ्चमः सर्गः।
१३७ नीलीगुग्गुललाक्षाश्च निम्बचीवरसंहतीः । असौ संग्राहयामास हरिद्रादि विशेषतः ॥ ३२ ॥ शुक्रवारेऽथ विस्फूर्जजैत्रवादित्रसुन्दरम् । पोतं प्रपूरयामास समुद्रा_पुरस्सरम् ॥ ३३ ॥ ध्रुवचक्रप्रमाणेन सिद्धान्तेनाऽथ साधुवत् । संचेरे सरितां नाथे पोतो वेगेन वायुवत् ॥ ३४ ॥ शक्रः सभामुपासीन उपार्हन्नयमाहताः । त्रिदशानां पुरश्चक्रे वर्णनं कलया गिरा ॥ ३५॥ मनुष्यकीटको धर्मादचाल्यस्त्रिदशैरपि । अवोचद् यद्वचः शक्रस्तदद्याऽलीकयाम्यहम् ।। ३६ ॥ इति ध्यात्वा सुरः कश्चिद् मत्सराध्मातमानसः। अधिवार्षि महामेघं विचक्रे व्योममण्डले ॥ ३७ ॥ नीलीरक्तेव सर्वत्र जजृम्भे घनमण्डली। पोतस्थजनजीवानां ग्रसने राक्षसीयिता ॥ ३८॥ सत्त्वहेम्नः परीक्षायां शाणायन्ते चिरयुतः। गर्जितान्यपि जीवानां ठात्कारा इव निग्रहे ॥ ३९ ॥ यथा यथा प्रवहणं कम्पते चैत्यकेतुवत् ।। तथा तथाऽगिनां भीतिग्रहिलानि मनांस्यपि ॥ ४०॥ कम्पमाने प्रवहणे वीचिभिः पूरिताम्बरे। स्पर्धया धीवरा वारि चिक्षिपुश्चटसैबहिः ॥४१॥ विचक्रेऽथानिलं स्वर्गी झञ्झावातभयङ्करम् । येनेक्षणानि पोतस्था मिमीलुः स्वधिया समम् ॥४२॥ हा मातस्तात ! हा भ्रातहीं बन्धो ! कुलदेवताः।। अस्माकं कुरुताऽमुत्र साहाय्यं महदापदि ॥ ४३ ॥ इत्यादिलोकसंलापैः कर्णाय सूचिकोपमैः । व्यानशे रोदसीकूपो निर्भीमैर्यर्जितैः समम् ॥ ४४ ॥ कुम्भलक्षैः करिष्यामि स्नानं कुङ्कुमवाहिभिः ।
१८ -