________________
१३२ मल्लिनाथमहाकाव्ये
बद्धेन्द्रनीलमुकुट इवाऽऽभाति सुराऽचलः ॥ १७९ ॥ स्तुत्वेति मिथिलां गत्वा हृत्वा च स्वापिनीमपि । भूत्वा मातुर्जिनं पार्थे मुक्त्वा शक्रोऽभ्यधादिदम्।।१८०॥ अस्मिन् स्वामिन्यकल्याणं योऽधमश्चिन्तयिष्यति । तस्यार्जमञ्जरीवाऽऽशु स्फुटिष्यति शिरः स्वयम्॥१८१॥ पूरयित्वा विभोर्वेश्म रत्नस्वर्णादिभिः स च । यात्रां नन्दीश्वरे कृत्वा खं स्थानं हरयो ययुः॥१८२।। प्रभावतीमथ ज्ञात्वा प्रसूतां सम्भ्रमान्विताः। स्त्रियः श्रीकुम्भभूपस्य सुतोत्पत्तिं बभाषिरे ॥१८३॥ स्वकिरीटं विना ताभ्यः स्वाङ्गिकं भूषणं ददौ । वृत्तिं च चक्रिरे यावद् वेणिकामपि सप्तमीम् ॥१८४॥ रत्नस्वर्णादिभिः पूर्ण गृहं वीक्ष्य नरेश्वरः। अज्ञासीत् तनयोत्पत्तौ देवेन्द्राणां समागमम् ॥ १८५।। ततो मुमुचिरे राज्ञा कारागाराद् द्विषन्नृपाः । कारयाश्चक्रिरे पूजा जैनचैत्येषु सर्वदा ॥ १८६ ॥ समाजग्मुरुपाध्यायाः पठन्तः सुतमातृकाम् । उच्चावच्चपदैश्छात्रैवेग्लद्भिर्मर्कटैरिव ॥ १८७ ॥ चन्द्रार्कदर्शनं भर्तुस्तृतीयेऽह्नि प्रमोदतः । षष्ठीजागरणं षष्ठे पितृभ्यां च व्यरच्यत ॥ १८८ ॥ गर्भस्थेऽस्मिन् प्रभौ मातुर्माल्यशयनदोहदम् । बभूव तन्मल्लिरिति प्रभो म प्रतिष्ठितम् ॥ १८९ ॥ अङ्गुष्ठस्थां पपौ स्वामी शक्रसंक्रमितां सुधाम् । उदयेऽपि क्षुधः स्तन्यं न पिबन्ति जिनेश्वराः॥१९०॥ रेजे देहः शुचिर्भर्तुरप्रक्षालितनिर्मलः । निरामयः सुगन्धिश्च पूर्णकर्पूरपात्रवत् ॥ १९१ ॥ पद्मकिञ्जल्कसुरभिर्बभौ श्वासो जगत्पतेः । गोक्षीरधारागौरे च रेजाते रुधिरामिषे ॥ १९२ ॥