________________
चतुर्थः सर्गः ।
१३१ केचित् कोलाहलं चक्रुर्जितद्यूतपणा इव । अहासयन् सुरान् केचिद् विटवद् नर्मभाषणैः ॥१६६॥ एवं जन्मोत्सवे कोऽपि हर्षो जज्ञे दिवौकसाम् ।। वागीशोऽपि गिर गुम्फैर्य वर्णयितुमक्षमः ॥ १६७ ॥ वाम जानुमथाऽऽकुञ्च्य शिरोन्यस्तकरो हरिः । परमानन्दनिर्मग्नः शक्रस्तवनमुज्जगौ ॥ १६८ ॥ नमोऽर्हते भगवते आदितीर्थकृते नमः । खयंसंबुद्धतत्त्वाय नराणामुत्तमाय च ॥ १६९ ॥ नरसिंहाय पुरुषपुण्डरीकाय ते नमः । नृवरगन्धकरिणे नमो लोकोत्तमाय च ॥ १७० ॥ लोकनाथाय लोकानां कृतोत्तमहिताय च । लोकानां तु प्रदीपाय लोकप्रद्योतकारिणे ॥ १७१ ॥ नमोऽस्त्वभयदात्रे च चक्षुर्दात्रे च सर्वदा । मार्गदाय शरण्याय बोधिदात्रे नमो नमः ॥ १७२ ॥ धर्मदात्रे धर्मदेष्ट्र धर्माधिपतये नमः । धर्मसारथये धर्मचतुरन्तैकचक्रिणे ॥ १७३ ॥ नमः सदाप्रतिहतज्ञानदर्शनधारिणे । विगतच्छमने नित्यं जिनाय जापकाय च ।। १७४ ॥ तीर्णाय तारकायोचैर्बुद्धाय बोधकाय च । मुक्ताय मोचकाय सर्वज्ञाय सर्वदार्शने ॥ १७५ ॥ शिवाऽचलाऽरुजाऽनन्ताऽक्षयाऽव्याबाधनिर्वृतौ । । सम्प्राप्ताय नमस्तुभ्यमिति शक्रः स्तवं व्यधात् ॥१७६॥ कृतकृत्यमिवात्मानं मन्यमानोऽर्हतो नतौ । रोमाञ्चितवपुः शक्र इति स्तोतुं प्रचक्रमे ॥ १७७ ॥ नमस्तुभ्यं जिनाधीश ! परमानन्ददायिने । उल्लसत्करुणाक्षीरपाथोधिशशलक्ष्मणे ॥ १७८ ॥ त्वया त्रिजगतां नाथ ! फलिनीदलकान्तिना। :