________________
१३०
मल्लिनाथमहाकाव्येभक्त्या महत्याऽनुज्येष्ठं सोदर्या इव हर्षतः ॥ १५३ ॥ यदैकः कुरुते स्नानं शक्रोऽन्ये हरयस्तदा । सर्वेऽर्हतः पुरः सन्ति धृतचामरपाणयः ॥ १५४ ॥ विकृत्य पञ्च रूपाणि तद्वदीशानवासवः । सौधर्मेन्द्राधिपस्थाने दधन्नाथमवस्थितः ॥ १५५ ॥ अथ सौधर्मनाथोऽपि चतुर्दिक्षु व्यधात् क्रमात् । वृषभांश्चतुरः स्फारस्फाटिकोपलनिर्मितान् ॥ १५६ ॥ तेषामुत्तुङ्गशृङ्गाग्रप्रसृता गगनाङ्गणे । प्रसमुरम्भसामष्टौ धाराश्चन्द्रकलोज्ज्वलाः ॥ १५७ ॥ एकीभूय पतन्त्यस्ताश्चन्द्रकान्तसमुज्ज्वलाः । निम्नगा इव पाथोधौ निपेतुः प्रभुमूर्द्धनि ॥ १५८ ॥ स्नपयित्वेति तीर्थेशं भाविनं त्रिदशाधिपः । रत्नदर्पणवद्वेगाद् ममार्जाङ्गं विभोरथ ।। १५९ ।। ततो रत्नमये पट्टे स लिलेखाऽष्टमङ्गलीम् । निजपुण्यैरिवाखण्डैस्तण्डुलै रूप्यनिर्मितैः ॥ १६० ॥ ततो विलेपयामास वासवोऽहं जगत्पतेः । भूषणानि च प्रत्यक्षं वासवः पर्यदीधपत् ॥ १६१ ॥ विनिद्रपारिजाताद्यैः कुसुमैः परमेश्वरम् । मुखकोशमनोहारि पूजयामास वृत्रहा ॥ १६२ ॥ उत्तार्य लवणं त्रिश्च सर्वदोषविभेदकृत् । आरात्रिकमुपादत्त पुरोभूय हरिविभोः ॥ १६३ ॥ इतश्च विस्मिताः केचिद् मैजु गुञ्जन्ति भृङ्गवत् । केचिच्च बृंहितं चक्रुः कुञ्जरा इव निर्जराः॥१६४॥ केचित्तकारधीकारं वायैरिव मुखैर्व्यधुः । सिंहनादं मुहुः केचिद् नटा इव वितेनिरे ॥१६५॥ १ 'त्रिदिवाधिपः' इत्यपि । २ 'दीप्राणि' इति च । ३ 'संजगुर्जातिभृङ्गवत् ' अयमपि पाठः ।