________________
चतुर्थः सर्गः ।
हासहासरती श्वेतमहाश्वेतौ पुरन्दरौ ॥ १४० ॥ पवकपावकपती पत्रकानां तु वज्रिणौ । एवं षोडश देवेन्द्रा आययुर्मेरुमूर्द्धनि ॥ १४१ ॥ ज्योतिष्काणामशेषाणां चन्द्रादित्यावधीश्वरौ । चतुःषष्टिरितीन्द्राणां मेरुमूर्द्धानमाययौ ॥ १४२ ॥ आदिदेशाऽच्युतेन्द्रोऽथाऽऽभियोगिकदिवौकसः । क्षीरोदादि समानेतुं जिनस्त्रपनहेतवे ।। १४३ ॥ क्षीरोदादिसमुद्रेषु गङ्गादिषु नदीषु च । तीर्थेषु मागधाद्येषु ते गत्वा जगृहुर्जलम् ॥ १४४ ॥ तद्वन्मृत्स्नापयोजादि लात्वा क्षीरोदवार्द्धितः । गोशीर्षचन्दनादीनि ते शक्रेभ्यो डुढौकिरे ।। १४५ ॥ सौवर्णान् राजतान् रात्नान् स्वर्णरूप्यविनिर्मितान् । रत्नस्वर्णमयान् दिव्यान् रजतस्वर्णरत्नजान् ॥ १४६॥ रूप्यरत्नमयान् भौमान् विचक्रुः कलशांश्च ते । अष्टोत्तरं सहस्रं स्यात्तेषां प्रत्येकमेव च ॥ १४७॥ (युग्मम्) अतिपाण्डुशिलापीठरत्नसिंहासने स्वयम् । सौधर्मेन्द्रो निषद्या दधौ त्रिजगतां पतिम् ॥ १४८॥ अच्युतेन्द्रस्ततो भक्त्या कर्पूरागरुधूपितम् । मुमोच विश्वनाथस्य पुरतः कुसुमाञ्जलिम् ।। १४९ ॥ ताड्यमानासु भेरीषु मृदङ्गेषु स्वनत्स्वथ । मुहुरास्फाल्यमानासु कांस्यतालासु निर्दयम् ।। १५०॥ स्मयमानैरिव न्यस्तविस्मेरकुसुमोत्करैः । अधीयानैरिव स्नात्रश्लोकान् गुञ्जदलिच्छलात् ॥ १५१ ॥ अच्युतेन्द्रेण तैः कुम्भैर्योजनाऽऽस्यैर्जगद्गुरोः । स्नात्रं चक्रे महानन्दात् सुधाशुग्भिः समं निजैः ॥ १५२ ॥ (त्रिभिर्विशेषकम् )
एवं द्वाषष्टिरन्येऽपि स्नात्रं चक्रुर्जगत्पतेः ।
१७
१२९