________________
१२८
मल्लिनाथमहाकव्येनिमेषार्धेन गत्वाऽसौ सुवर्णाचलचूलिकाम् । अतिपाण्डुकम्बलायां शिलायां प्राङ्मुखः स्थितः।।१२७।। एवमीशानकल्पेशः सनत्कुमारसंज्ञिकः। .. माहेन्द्रो ब्रह्मलोकेशो लान्तकस्त्रिदशाधिपः ॥१२८ ॥ शुक्रशक्रः सहस्रार आनतः प्राणतेश्वरः । आरणाच्युतराजोऽपि दशेत्थं कल्पवासवाः॥१२९॥ श्रेणिद्वयनिकायेषु दशसूभयतः क्रमात् । अमी विंशतिरिन्द्राः स्युभवनानामधीश्वराः ॥१३०॥ पुर्यां चमरचश्चायां चमेरन्द्रो बलिस्तथा । धरणेन्द्रो भूतानन्दो हरिस्सहहरिस्वभौ ॥ १३१ ॥ वेणुदेवो वेणुदारी त्वग्निशिखाग्निमाणवौ । वेलम्बप्रभञ्जनाख्यौ सुघोषो भवनेश्वरः ॥ १३२ ॥ महाघोषो जलकान्तो जलप्रभ इति स्मृतः । पूर्णो विशिष्टशक्रश्च त्वमितामितवाहनौ ॥१३३ ।। एवं च व्यन्तरश्रेण्योर्दक्षिणोत्तरकोणयोः । अष्टावष्टनिकायाः स्युस्तेष्विन्द्राः षोडश क्रमात्॥१३४॥ कालशको महाकालः सुरूपः प्रतिरूपकः। पूर्णभद्रो माणिभद्रो भीमो यक्षगणेश्वरः ॥ १३५ ॥ महाभीमः किन्नरश्च किंपुरुषस्ततः परम् । तथा सत्पुरुषमहापुरुषो वासवाविमौ ॥ १३६॥ अतिकायमहाकायौ महोरगप्रभाविमौ । गीतरतिर्गीतयशा गन्धर्वाणामधीश्वराः ॥ १३७ ॥ तद्वदाप्रज्ञप्तिपञ्चज्ञप्त्यादीनां तु षोडश । व्यन्तराष्टनिकायाणां वासवाः समुपागताः॥१३८॥ तथाप्रज्ञप्तीनां शक्रः संनिहितः समानकः । धाता विधाता च हरी ऋषिश्व ऋषिपालकः॥१३९॥ ईश्वरो महेश्वरश्च सुवत्सकविशालको ।