________________
चतुर्थः सर्गः।
१२७ विचित्रैर्वाहनै रूढास्त्रिदशाः शक्रसन्निधौ ॥ ११३॥ पालको घुसदीशेनाऽऽभियोगिकशिरोमाणः । आदिष्टो विदधे वेगाद्विमानं बहुमानतः ॥ ११४ ॥ भुजैरिव ध्वजैर्नृत्यच्छत्रैर्हसदिवोज्ज्वलैः। वीक्षयमाणं यदुत्तुङ्गैर्गवाक्षर्नयनैरिव ॥ ११५॥ ततः प्रदक्षिणीकृत्य प्राच्यसोपानवर्त्मना । धुसन्नाथो विमानं तदारुरोह समं सुरैः॥११६॥(युग्मम्) गन्धर्वनाट्यानीकाभ्यां कौतुकाक्षिप्तमानसः। अभिस्वयम्भूरमणं तेनाचालीत् पुरन्दरः॥ ११७॥ हस्तिवाहन ! मा गास्त्वं पुरः सिंहभृतो मम । अश्वसादिनितो याहि महिषो मम वाहनम् ॥११८॥ सर्पगामिन्नितो याहि न मे तायः सहिष्यते । मद्विमानं विमानाप्रैः किं घट्टसि सुधाशन !? ॥११९॥ इत्थं सौधर्मकल्पस्य देवानां परिसर्पताम् । कोलाहलै भो व्यापि सरिद्घोषैरिवाम्बुधिः ॥१२०॥ अथाऽसंख्यातद्वीपाब्धीनतिक्रम्य क्षणादपि । संक्षिपन् संक्षिपन्नुच्चैस्तद्गन्थवत् पुरन्दरः ॥ १२१ ॥ भारते दक्षिणे पुर्या मघवा समुपागतः । तस्मादुत्तीर्य तीर्थेशं तदम्बां चाऽनमत्तराम् ॥१२२॥ प्रभावति ! प्रभायुक्ते ! जिनकल्पद्रुमप्रदे ।। नमो दत्तजगद्दीपे ! नमश्चिन्तामणिप्रदे !॥ १२३॥ इति प्रभावतीं स्तुत्वा दत्त्वा च स्वापिनीं हरिः। प्रतिरूपं प्रभोर्मुक्ता चलितोऽभिसुराञ्चलम् ॥१२४॥ वजं छत्रं जिनं बिभ्रचामरे च पृथक् पृथक् । इतीन्द्रः पञ्च रूपोऽभूद् मार्गे मेरुं प्रति व्रजन् ॥१२५॥ ततो देवाङ्गनादेवकोटिलक्षसमन्वितः।। पूरयन् गगनं तूर्यघोषैहेर्षमयैरिव ॥ १२६ ॥ .. ..