________________
मल्लिनाथमहाकाव्ये
कथङ्कारं प्रभो ! कोपो मयि सत्यपि तन्यते । शृणु स्वाऽऽसनकम्पस्य कारणं श्रोत्रपारणम् ॥ १०० ॥ द्वीपाये जम्बूद्वीपेऽस्मिन् वर्षे दक्षिणभारते । मिथिलायां महापुर्या श्रीमत्कुम्भमहीपतेः ।। १०१ ॥ पट्टदेव्याः प्रभावत्या अद्यैव त्रिजगत्पतिः । एकोनविंशतीर्थेशो भगवान् समजायत । १०२ || ( युग्मम् ) तेनासनप्रकम्पोऽयं तीर्थकृज्जन्मसूचकः । दिव्यसौख्यप्रमत्तानां कथं वोsवधिरन्यथा ॥ १०३ ॥ श्रुत्वेदं त्रिदशाधीशस्तस्मिन् दुश्चिन्तिते निजे । मिथ्यादुष्कृतमवदन् निन्दन्नात्मप्रमादिताम् ।। १०४ ॥ अथोत्थायाssसनादिन्द्रः सप्ताष्टौ च पदान्यऽदात् । संमुखं जिननाथस्य ततः स्तोतुं प्रचक्रमे ।। १०५ ॥ सम्पूर्णस्त्वं त्रिभिर्ज्ञानैर्गर्भवासादपि प्रभो ! । अतोऽपि यो गुणोच्छ्रायः स भवेत् कस्य गोचरः ॥ १०६॥ एवं जिनस्तुतिं कृत्वा सेनान्यं हरिणाननम् । आदिदेशेति सुत्रामा गिरा धीरप्रशान्तया ।। १०७ ॥ जम्बूद्वीपे मिथिलायां श्रीमत्कुम्भस्य भूपतेः । एकोनविंशस्तीर्येशः प्रभावत्यामजायत ।। १०८ ॥ कर्तुं तस्या जनिस्नात्रमाहूयन्तां दिवौकसः । कल्याणिकोत्सवविधेरधिकारो यतोऽस्ति नः ॥ १०९ ॥ अवादयदसौ घण्टां परिमण्डलयोजनाम् । सुघोषां तन्निनादेन घोषः सर्वास्वजायत ।। ११० ॥ द्वात्रिंशतीविमानानां घण्टालक्षेष्वथ स्वनः । समकालं समुत्तस्थे शब्द | द्वैतमभूत् तदा ।। १११ ॥ संभ्रान्तान् रणनैस्तासां दृष्ट्वा तानिति सोऽवदत् । जन्मस्त्रात्रे जिनेन्द्रस्य सहेन्द्रेण प्रसर्पताम् ॥ ११२ ॥ केsपि शक्राज्ञया चेलुः केचिद् भक्त्या जिनं प्रति ।
१२६