________________
चतुर्थः सर्गः
सिंहासने सुतैलेनाऽभ्यानञ्जुर्मृदु मर्दनम् ॥ ८७ ॥ जनन्या सममभ्यर्च्य शीघ्रमुद्वर्त्य च प्रभुम् । निन्यिरे निभृतं देव्यः पौरस्त्ये कदलीगृहे ॥ ८८ ॥ तत्र गन्धाम्बुभिः पुष्पाम्बुभिः शुद्धाम्बुभिस्तथा । द्वावपि स्नपयित्वाथ भूषयन्ति विभूषणैः ॥ ८९ ॥ नीत्वोत्तरस्या रम्भायाः सदने हरिचन्दनैः । प्रज्वाल्याऽरणिना वह्निं ताथ भूतिं विचक्रिरे ॥ ९० ॥ रक्षाबन्धं व्यधुस्ताश्च जननीस्वामिनोः करे । रक्षा दुरितभिद्रेखां लभते सर्ववस्तुषु ॥ ९१ ॥ पर्वतायुर्भवेत्युच्चैरुक्त्वा कर्णान्तिके प्रभोः । अवादयंस्ततो रत्नपाषाणौ कांस्यतालवत् ।। ९२ ॥ सूतिकाधाम ता निन्युर्जननीं जिनमप्यथ । षट्पञ्चाशद्दिक्कुमार्यस्ता गायन्त्योऽवतस्थिरे ।। ९३॥
इतश्च
सौधर्मे प्रथमे कल्पे कल्पेशोऽनल्पवैभवः । अनेक देवदेवीनां कोटीभिः परिवारितः ॥ ९४ ॥ गीयमानगुणग्रामो गन्धर्वैः कोमलस्वनैः । स्तूयमानयशाश्चारु चारणैर्विरुदालिभिः ।। ९५ । दोधूयमानचमरो देवनारीभिरादरात् । यावदास्ते हरिस्तावदासनं कम्पमासदत् ॥ ९६ ॥ (त्रिभिर्विशेषकम् )
१२५
तत्प्रकम्पादसौ रुष्टस्ताम्रीकुर्वन् दृशोर्युगम् । अन्तर्ज्वलत्कोपवह्निज्वालाः प्रकटयन्निव ॥ ९७ ॥ वक्रीकुर्वन् भ्रुवोर्युग्मं कोदण्डमिव भीषणम् । ज्वलज्ज्वालाकुलं पाणौ वज्रं वज्रधरोऽधरत् ।। ९८ ॥ तत्कोपाटोप मुद्वीक्ष्य नम्रमौलिः कृताञ्जलिः । प्राचीनवर्हिषं प्रोचे नैगमेषी चमूपतिः ।। ९९ ॥