________________
१२४
मल्लिनाथमहाकाव्येअष्टावेत्य स्वदिग्भागेऽगायन् भृङ्गारपाणयः ॥७५ ॥
ताश्चेमा:समाहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥ ७६ ।। ततस्तस्य गिरेरेव प्रहृष्टा वारुणीदिशः। संस्थानं तत्र देव्योऽष्टौ चक्रुर्व्यजनपाणयः ॥ ७७॥
ताश्चेमाःइलादेवी सुरादेवी पृथिवी पद्मवत्यथ । एकनासाऽनवमिका भद्रशोकेति नामतः॥ ७८ ॥ एवमुत्तरदिग्भागादपि रुचकवर्तिनः । समेत्याष्टौ स्थितिं चक्रुस्तत्र चामरपाणयः॥ ७९ ॥
ताश्चेमाःअलम्बुशा मिश्रकेशी पुण्डरीका च वारुणी। . हासा सर्वप्रभा चैव श्री_रित्यभिधानतः ॥ ८० ॥ चतस्रो विदिग्रुचकात् सदीपा दिकुमारिकाः। चित्रा चित्रकनका सुतारा सौत्रामणी तथा ॥ ८१ ।। प्रणिपत्य जगन्नाथं जगन्नाथस्य मातरम्।। ईशान्यादिविदिक्संस्था बभूवुर्दीपपाणयः ॥ ८२ ॥ देव्योऽन्या मध्यरुचकात् चतस्रः समुपस्थिताः। रूपा रूपाश्चिका चाऽपि सुरूपा रूपकावती ॥ ८३ ।। ताश्चतुरङ्गुलीवर्ज नालं छित्त्वा भुवोऽन्तरे। क्षिप्त्वा रत्नमयं रत्नदूर्वापीठं विचक्रिरे ॥ ८४ ॥ विहाय पश्चिमां जन्मगृहाद् दिक्षु तिसृष्वपि । रम्भागृहाणि चत्वारि देव्यस्ताश्च विचक्रिरे ॥ ८५ ॥ तेषां मध्ये चतुःशालं विशालं निजचित्तवत् । प्रत्येकं रचयामासुः सिंहासनविकस्वरम् ॥ ८६॥ दाक्षिणात्ये चतुःशाले नीत्वाऽमुं विनिवेश्य च ।