________________
चतुर्थः सर्गः। __ताश्चैता:भोगङ्करा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमाला त्वनिन्दिता ॥६३ ॥ एकोनविंशतीर्थेशमम्बां च जगतां पतेः। अनुप्रदक्षिणीकृत्य नत्वा भक्त्येत्थमूचिरे ॥ ६४ ॥ समुयोतितभुवने ! जगन्नायकजन्मना । जगद्वन्द्यगुणाधारे ! जगन्मातर्नमोऽस्तु ते ॥ ६५ ॥ अधोलोकनिवासिन्यो वयमष्टौ जगन्नते ! । तीर्थकृज्जन्ममहिमां क कामा इहागताः ॥ ६६ ॥ अस्मत्तस्तद् न भेतव्यमुक्त्वा पूर्वोत्तरस्थिताः । पाङ्मुखं सूतिकौकस्ताश्चक्रुः स्तम्भसहस्रयुक् ॥६७॥ अभितः सूतिकाधाम ततः संवर्त्तवायुना । कण्टकतृणकाष्ठाघमायोजनमपाहरन् ॥ ६८॥ अथ संहृत्य पवनं प्रणम्य जिननायकम् । आसन्नाऽऽसनमासीना गायन्त्योऽस्थुर्यथाविधि ॥६९॥ सुवर्णाद्रिकृतावासास्तद्वदासनकम्पतः । ऊर्ध्वलोकात् समाजग्मुरष्टौ देव्यस्तथाऽपराः॥७॥ मेघङ्करा मेघवती सुमेघा मेघमालिनी । तोयधारा विचित्रा च वारिषेणा बलाहिका ॥ ७१ ॥ विकृत्य जलदं कृत्वा प्रशान्तरजसं महीम् । विधाय पुष्पवृष्टिं च तागायन्त्योऽवतस्थिरे॥ ७२ ॥ पौरस्त्यरुचकादष्टौ पूर्वस्या दिश आगताः । हस्तस्थदर्पणा देव्यो जगुस्तत्राहतो गुणान् ॥ ७३ ॥ ताश्च नन्दोत्तरानन्दे सुनन्दानन्दिवर्द्धने । । । विजया वैजयन्ती च जयन्ती चाऽपराजिता ।। ७४ ॥ अपाच्यरुचकादिस्था दक्षिणस्या दिशोऽपराः । १ त्रिजगत्पतेः' इत्यपि। .