________________
१२२ मल्लिनाथमहाकाव्ये
स्वमान् द्वासप्ततिं राजन् ! प्रशस्तान् कोविदा विदुः । तन्मध्यात् त्रिंशतं तेषु महास्वमांश्चतुर्दश ॥ ५० ॥ अर्हतां चक्रिणां माता चतुर्दशैव पश्यति । हरेर्माता तथा सप्त चतुरः सीरिणोऽपि च ॥५१॥ अमुत्र भरतक्षेत्रे जिना अष्टादशाऽभवन् । चक्रिणोऽष्टौ भरतायाः षट्खण्डभरतेश्वराः ॥५२॥ एकोनविंशतीर्थेशजनिरुद्भाव्यतेऽधुना। अथवा चक्रिणोराजन् ! नवमस्य हि साम्पतम् ॥५३॥ परितुष्टोऽथ भूनाथस्तद्वचःश्रवणादसौ । ददौ ग्रामाकरायुच्चैर्वासोऽलङ्करणादि च ॥ ५४॥ वस्त्रालङ्करणैरेते कल्पद्रुमदलैरिव । राजमाना ययुगेंहं श्रिया श्रीदविडम्बिकाः ॥ ५५ ॥ देवानुभावसम्पूर्णमनोरथतया भृशम् । मुदितायाः सुखेनैव गर्भो देव्या व्यवर्धत ॥५६॥ सार्धाष्टमदिने मासनवके गतवत्यथ । मार्गविशुद्धैकादश्यामश्विन्यां च निशाकरे ॥ ५७ ॥ ग्रहेपूच्चस्थितेषूच्चैस्तजन्मौको दिदृक्षया । एकोनविंशमहन्तं नीलाभ कुम्भलाञ्छनम् ॥ ५८॥ प्राग्जन्ममाययोपात्तस्त्रीकर्मत्वेन कन्यकाम् । प्रभावती प्रसूते स्म गङ्गेच स्वर्णपद्मिनीम् ॥ ५९॥.
(त्रिभिर्विशेषकम् ) अनुकूला ववुर्वातास्तजन्मसुखिता इव । सुप्रसन्ना दिशोऽभूवन् कृतकृत्या इव प्रजाः ॥ ६ ॥ अरिष्टानि क्षयं जग्मुः शुभशस्यमभूद् जगत् । नारकाणामपि सुखमाकस्मिकमभूत् क्षणम् ॥ ६१॥ दिक्कुमार्यो विदित्वाऽथ तजन्मासनकम्पतः । अधोलोकात् समाजग्मुरष्टौ देव्यः ससंभ्रमम् ॥६२॥