________________
चतुर्थः सर्गः।
१२१ इत्येतान् हर्षकल्पद्रोः सुमेरुगिरिकन्दरान् । प्रभावती महादेवी दृष्ट्वा स्वमान् व्यबुध्यतः ॥ ३७॥
- (पञ्चदशभिः कुलकम् ) इतस्तत्र समागत्य सर्वेऽपि त्रिदशेश्वराः। चलत्कुण्डलमाणिक्यरचितेन्द्रधनुर्युतः ॥ ३८ ॥ किरीटस्पृष्टभूपीठा नेत्रैर्नीलोत्पलैरिव । प्रभावतीं समभ्यर्च्य पेठुस्तवनमीदृशम् ॥ ३९ ॥ प्रभावति ! नमस्तुभ्यं प्रभावातिशयान्विते ! । सद्वृत्ताऽदोषतीर्थेशरत्नरोहणचूलिके ! ॥ ४० ॥ प्रभावमहिमालास्यमौषधं सुदृशां परम् । अनूपेऽम्बुनिपानं च मरौ नद्यवतारणम् ॥४१॥ दरिद्राणां धनमिदं प्रपा भवपथे नृणाम् । यत्त्वया त्रिजगन्नाथो ध्रियते कुक्षिकन्दरे॥४२॥ (युग्मम् ) प्रभावतीमिति स्तुत्वा द्वीपे नन्दीश्वराभिधे । कृत्वा महोत्सवं स्थानं स्वं स्वमीयुः सुरोत्तमाः॥४३॥ स्वमान्तादपि जाग्रत्या प्रभावत्या महीपतेः। कथयामासिरे प्रातर्यथादृष्टममून्यथ ॥ ४४ ॥ ऋजुना मनसा स्वमान् विचार्य क्षोणिनायकः। आचख्याविति ते देव्यपत्यरत्नं भविष्यति ॥ ४५ ॥ विशेषतस्त्वमीषां तु फलं ज्ञातुं धरेश्वरः। आजूहवत् प्रतीहारात् स्वमशास्त्रविशारदान् ॥ ४६॥ पार्वणेन्दुवदाऽऽनन्दसम्पादनकृतोद्यमाः। वंशगोरोचनापुण्ड्रा आजग्मुः स्वमपाठकाः ॥४॥ आर्यवेदोद्भवान् मन्त्रानुच्चार्योदामया गिरा। उपाविक्षनासनेषु मराला नलिनेष्विव ॥४८॥ आसयामास भूपालो जायां जवनिकान्तरे । अथैषा न्यगदत् स्वमानाऽऽप्ततत्त्वयुजा गिरा ॥४९॥