________________
१२०
मल्लिनाथमहाकाव्ये चतुर्भिर्दशनैः शुभैरुपायैरिव भूपतिः । करी मदरुचिः प्रेडद्रोलम्बरवडम्बरी ॥ २४ ॥ रज्यद्भिरिव काश्मीरैः राजितः स्कन्धकेशरैः ।। केशरी सौम्यकामास्यः शरलीकृतबालधिः ॥ २५ ॥ करीश्वरकरकोडस्वर्णकुम्भजलोमिभिः । संसिच्यमानपुण्यदुरिव लक्ष्मीः पुरःस्थिता ॥ २६ ॥ कल्पद्रुपारिजातादिप्रसूनस्तोमगुम्फितम् । दाम दामाऽच्छिन्नमिव चञ्चलायाः सदा श्रियाः ॥ २७ ॥ तन्वन् कुवलयोल्लासं दृक्चकोरमुदं दिशन् । राजमानः करै राजा पुण्यपादपदोहदः ॥२८॥ भाभिरुयोतिताशेषदिक्चक्रश्चक्रवान्धवः । पूर्वाद्रिमौलिमाणिक्यपद्मिनीवनवल्लभः ॥ २९॥ सुवर्णकिङ्किणीकाणैर्जगतोऽशेषसंपदः । व्याहरन्निव सद्वंशभ्राजिष्णुश्चपलो ध्वजः ॥ ३० ॥ नीलाम्बरोऽम्बरेणेव रोचिष्णुः प्रबलैर्दलैः। कामकुम्भः श्रियो देव्याश्चित्रं लीलाविलासभूः ॥ ३१ ॥ आकण्ठं पूर्णमम्भोभिः सुधाकुण्डमिवापरम् । तापोपतापविध्वंसि पदरम्यं सरोवरम् ॥ ३२॥ मर्यादोदयरोचिष्णुर्कीजिष्णुर्वाहिनीशतैः । सार्वभौमभ्रम चिन्वन् गम्भीरः सरितांपतिः॥ ३३.॥ गर्भजीवस्फुरत्माज्यहर्षव्यतिकरादिव। ..... विमानमनुगं स्फूर्जकिङ्किणीकाणभासुरम् ॥ ३४ ॥ कि रोहणं करे कृत्वा किंवा रत्नाकरं पुनः। .. रत्नोच्चयः पुरः पुण्यसम्पदा प्राभृतीकृतः ॥ ३५ ॥ दधानो वैद्रुमी भ्रान्ति ज्वालामालाकरालितः । उद्यदिनेशसदृशो निर्धूमश्च विभावसुः ॥ ३६॥ .