________________
११२
मल्लिनाथमहाकाव्ये
योद्धुं प्रववृतेऽत्यन्तं बन्धसत्ताऽऽदिवर्मभृत् ॥ १८० ॥ मतिश्रुताऽवधिमनः केवलावरणैः समम् । • ज्ञानावरणकर्माऽथाऽचलत् कर्मद्विपानुगम् ॥ १८९ ॥ चक्षुरचक्षुरवधिकेवलदर्शनावृतिः ।
आद्या निद्रा निद्रानिद्रा मचला च तृतीयका ॥१८२॥ प्रचलाप्रचला स्त्यानधिरेवं नवभिस्ततः । दर्शनावरणं कर्म पाणिभागेऽभवत्तराम् ।। १८३ ॥ सातासातभिदाभ्यां तु वेदनीयं तदग्रतः । तिर्यग्नारकतृस्वर्गभेदादायुश्चतुर्विधम् ॥ १८४ ॥ गतिजातितनूपाङ्गबन्धनादिविशेषतः ।
त्र्युत्तरशतेन नाम संनह्य प्रगुणं स्थितम् ॥ १८५ ॥ उच्चैनीचैर्द्विधा भिन्नं गोत्रं तस्य पुरस्सरम् । अन्तरायो दानलाभीर्यभोगोपभोगयुक् ।। १८६ ॥ कषायैनकषायैश्च योधैरिव महाबलैः । रणकामी भवस्वामी रणक्षेत्रममण्डयत् ॥ १८७ ॥ ततो व्रतमहीपालः सत्क्रियाकवचोत्तरः । अवर्षद् धर्मचापेन देशनानिर्मितैः खगैः ॥ १८८ ॥ पात्रस्यानुपघातेनाऽनिडवेन गुरोरपि । जिगाय ज्ञानावरणदर्शनावरणे नृपः ।। १८९ । जिनेन्द्रसिद्धचैत्यौघसंघस्य द्वेषवर्जनैः । अनन्तदुःखसंभारं सोऽजयद् दृष्टिमोहनम् ॥१९०॥ तीव्रक्रोघपरीहारैर्भवभ्रमणवारणैः ।
चारित्रमोहं चारित्रभूपालो जितवांस्तदा ।। १९१ ॥ महारम्भपरित्यागैस्तीत्ररागविवर्जनैः ।
व्रतेशो नरकायुष्कं समूलमुदपाटयत् ।। १९२ । सन्मार्गदेशकत्वेन तिर्यगायुस्ततः परम् । विजयेन कषायाणां मनुष्यायुरथाऽजयत् ॥ १९३ ॥