________________
११० मल्लिनाथमहाकाव्ये
नास्त्यात्मा नास्ति देवोऽपि नास्ति काचन नितिः। नास्ति पुण्यं तथा पापं किन्तु भूतमयं जगत् ॥१५५।। एकस्मिन् दृषदि न्यस्य पादद्वन्द्वमुपासकैः। अभ्यर्च्यते शिला त्वन्या शवमण्डनलीलया ॥१५६॥ किं तया विहितं पापं यस्या उपरि संस्थितम् । स्थाप्यन्ते चरणा अन्याः पूज्यास्तत्किं कृतं शुभम् ११५७ यद् बुद्धयते न तत्त्वं तद् यत्तत्वं तन्न बुध्यते । अतत्त्वलोलुपो लोको धिग्मूखैर्विप्रतार्यते ॥ १५८ ॥ इत्थं वचनवीथीभिर्भल्लीभिरिव ताडिताः। द्रव्यश्राद्धा अभव्यस्तैः क्षणादेव विनिर्जिताः ॥१५९॥
(चतुर्भिः कलापकम् ) अत्र चारित्रभूपालं प्रणम्य परमाहताः । अभव्यस्तैः समं योद्धं प्रवृत्ता रणरङ्गिणः ॥ १६० ॥ यदुच्यते भवद्भिश्च नास्तीति वचनं भृशम् । अस्तीत्युपेक्षया तच्च घटाकोटिमुपैति भोः! ॥ १६१ ॥ चरणस्थापनं भक्तिपूजनं यच्छिलावलम् । तत्प्रतिष्ठाफलं नाऽऽभिः पुण्यापुण्यमुपार्जितम् ॥१६२॥ इत्थं वाक्यैः सर्वलोहमयैरस्वैरिवोच्चकैः । पलायाश्चक्रिरे वेगादभव्यास्ताडितास्ततः॥ १६३ ॥ साकं संचारिभी राजपुत्रैः क्रमागतैरिव । सात्त्विकैरनुभावैश्च शान्तैः प्रहरणैरिव ॥ १६४ ॥ लीलाविलासविच्छित्तिविब्बोकादिमविभ्रमैः । इत्याद्यैः सहजैर्युक्ता रागवार्द्धिहिमांशुभिः ॥१६५॥ मण्डलाधिपकन्दर्पनिदेशाद् विषया भटाः । स्थायिभिमूर्ततेजोभिरिव योद्धु डुढौकिरे ॥१६६॥
(त्रिभिर्विशेषकम् ) तेषां दर्शनतः श्रीमद्वतराट्पक्षवर्तिनः। .