________________
मल्लिनाथमहाकाव्ये
भव्यसार्थान्वितो भव्यकुमारो यत्त्वया धृतः । तत् प्रसुप्तो मृगाधीशो हतो हन्त ! चपेटया ॥ १२९ ॥ एतावताऽपि नो नष्टं किमप्यस्ति महीपते । । गत्वा क्षमय निःशेषं नतिग्राह्या हि साधवः ॥ १३० ॥ इति ब्रुवाणं तं दूतं श्रुत्वा चारित्रभूपतिः । सहास्यमवदत् पाथः पूर्णपाथोदनिःखनः ।। १३१ ॥ त्वन्नाथनगरलोकैः सदागमविमोचितैः । मदीयं नगरं भद्र ! वसदस्ति निरन्तरम् ।। १३२ ॥ अमुमर्थं तव स्वामी जानन्नपि निजे हृदि । कथमद्योद्यतो जज्ञे विग्रहाय समं मया ? ॥ १३३ ॥ अथवा विग्रहं मत्वा सर्वोऽपि परमण्डले । प्रवेशं कुरुते धीमान् कीर्तिहासोऽन्यथा भवेत् ॥ १३४ ॥ न न्यूनं तव नाथेन तोलनीयं ममाधुना । इत्युक्त्वा व्यसृजद् दूतं ततश्चारित्रभूपतिः ।। १३५ ॥ अथ प्रभावनां जैत्रढक्कां चारित्रभूपतिः । तत्क्षणात् ताडयामास वैरिंगर्वगिरेः पविः ॥ १३६ ॥ शमसंवेग निर्वेदप्रमुखास्तस्य भूपतेः । सर्वाभिसारप्रयता बभूवुर्मण्डलेश्वराः ।। १३७॥ ज्ञानमौनक्रियाशीलसंपदो यानकाहलाः । समताड्यन्त भव्येन श्रवणप्रमदमदाः ।। १३८ ॥ अथ चारु मुहूर्त्तेऽह्नि कृतप्रस्थान मङ्गलः । आरुरोह व्रतक्ष्माभृत् संयमाभिधकुञ्जरम् ॥ १३९ ॥ जैनधर्माभिधो बन्दी भावनातुरगीस्थितः । एवं वचोऽगदत् काममाशीर्वादपुरस्सरम् ॥ १४० ॥ जय चारित्रभूपाल ! मलीनाशेषकल्मष ! । जय भव्यजनारामवसन्तसमयायित ! ।। १४१ ॥ १ - वर्ग - इति च पाठः ।
१०८