________________
तृतीयः सर्गः।
१०७ यस्तायपक्षः पक्षालीचिकीर्मङ्घ स्वसायके । 'दिग्दन्तिदन्तैः प्रेयस्याः सत्कङ्कणचिकीर्नरः॥११६।। सिंहस्य केशरै क्षारसदिग्धैरिवारुणैः। वेणीबन्धचिकीर्यश्च स मे पितृसपत्नति ॥११७॥
(युग्मम् ) दुर्नयस्य फलं सद्यो दर्शयामि रणाङ्गणे । मद्विक्रमकथाः सभ्याः ! वीक्षन्तां पौनरुक्त्यतः॥११८॥ अथ कर्ममहीपालः प्रज्वलन् क्रोधवह्निना । कुवासनाभिधां बाढं जैत्रढक्कामवीवदत् ॥ ११९ ॥ तस्या नादं समाकर्ण्य शौर्यद्रुमघनाघनम् । कामाद्या मण्डलाधीशाः सर्वे संनहनं व्यधुः ॥१२०॥ आहारभयसंज्ञाश्च चतस्रो यानकाहलाः। चतुर्दिक्षु जयायेव ताडिताः कर्मभूभुजा ॥१२॥ कदाग्रहमयास्तत्र निःस्वानाः सस्खनुस्तराम् । पश्चेन्द्रियविकाराश्च पञ्च तूर्याण्यपि स्फुटम् ॥१२२॥ अथ कर्ममहीपालः कृतप्रस्थानमङ्गलः । आरुराहाभिमानाख्यं नागं नगमिवोन्नतम् ॥१२३॥ अभव्यैर्मण्डलाधीशैश्चलत्कर्मगुणैरिव । दूरभव्यैस्तथा वर्गपत्तिभिः परिवारितः ॥ १२४ ।। प्रभञ्जन इवोद्दामो नस्खलत्पौरुषोत्तरः। ददौ योजनमानेन प्रयाणं कर्मभूपतिः॥१२५॥ इत्थं प्रयाणकं कुर्वन् सर्वगः कर्मभूपतिः । ग्रन्थिभेदाभिधे द्वीपे कृतवासो व्यराजत ॥१२६॥ मिश्रनामा महादूतः प्रेरितः कर्मभूभुजा। सम्यक्त्वमन्त्रिणो गेहमभ्यगाञ्चित्तवद् द्रुतम् ॥१२७॥ स्वामिन् ! कर्ममहीपालो मन्मुखेन तवाग्रतः । ईदृशं कथयामासाऽवधार्य तन्मयोदितम् ॥ १२८ ।।