________________
१०६
मल्लिनाथमहाकाव्ये
यतः
असहायः समर्थोऽपि तेजस्वी किं करिष्यति ? | निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥ १०३ ॥ श्रुत्वेदं निशितैः सर्वैः समित्रः कर्मनन्दनः । चचाल शकुनैश्वारु प्रेरितः सुकृतैरिव ॥ १०४ ॥ प्रातस्तेषां गृहाण्येष शून्यान्यालोक्य सर्वतः । लोको विज्ञपयामास राजानं कोपनाऽऽशयम् ॥ १०५ ॥ तनिशम्य वचो राजा कोपवह्निप्रभञ्जनम् । आजूहवद् महामात्यं मिथ्यात्वं बहुसंमतम् ॥१०६ ॥ अथावादीद् महाभाग ! सनीरजलदखरः । ममा मिश्रतेन जगदे जगदेकधीः ॥ १०७ ॥ भव्यो भव्यसमूहेन साकं स्वामिन् ! निशीथतः । उच्चल्य सर्वविरतौ नगरे गतवान् खलु ॥ १०८ ॥ स च चारित्रभूपेन कृतसंमानपूर्वकम् । समीपे स्थापितः पुत्रवद् दृष्टश्च दिवानिशम् ॥ १०९ ॥ चारित्रभूपतेः साधु धर्मपुत्रेण सङ्गतम् । नीली रक्ताम्बरमिव जज्ञे तस्याऽविनश्वरम् ११०॥ सन्मार्गदेशनानाम्नी वारवेश्या सुलक्षणा । तस्या गेहे स्थितो भव्यो विरागी भवतः प्रति । । १११ ॥ क्रमशः क्रमशस्तेन तत्पुरं कर्मभूपते ! | उद्वासितं सुबोधेन स्तोकलोकं भविष्यति ॥ ११२ ॥ श्रुत्वेति कर्मभूपालः क्रोधेनौष्ठदलं दशन् । ऊचे चारित्रभूपालं हनिष्यामि शृगालवत् ॥११३॥ मया चारित्रनामापि श्रुतमद्य महत्तम ! । मां मुक्त्वाऽन्यो महीपालो न कापि श्रूयते क्षितौ ॥ ११४॥ अथवा कल्पवृक्षेsपि विद्यमानेऽर्थिनां प्रिये । स्नुहीमहावृक्ष इति किं मूढैर्नो निगद्यते ? ।। ११५ ॥