________________
मल्लिनाथमहाकाव्येअमृत नन्दनान् पश्च विकारान् विदितान् भुवि ॥७जा आसन्नदूरसिद्धिकवेश्मान्येष दिवानिशम् । उपाद्रौषीत् सुतैः साकं पञ्चभिर्वामचेष्टितैः ॥ ७८ ॥ आसन्नदूरभव्याद्या मिलित्वा तैरुपद्रुताः। आगमन् कर्मभूमीशसमीपे प्राभृतोत्तराः ॥ ७९ ॥ प्रणम्य कर्मभूपालं तत्सर्व ते व्यजिज्ञपन् । परैर्हि परिभूतानां सर्वेषां पार्थिवो गतिः॥ ८० ॥
यदूचे
दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अन्यायैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥८१॥ तं निशम्याऽवदद् भूमान् रे रे नगरवासिनः। मद्वल्लभसुतस्यायमन्यायः पूत्कृतः कथम् ॥ ८२॥ यद्यन्ममाङ्गभूर्लोकान् गृह्णाति गृहमध्यतः। तत्तस्य शेषमन्यस्य प्रसाद इति यत्कृतः ॥ ८३ ॥ . यद्यत्र स्थातुमीशा न ततो गच्छत मे पुरात् । नगरस्य न कोणेऽपि ममायं कूणयिष्यति ।। ८४ ॥ . ततः कलिः प्रतीहारः संज्ञितो नेत्रसंज्ञया । तानर्द्धचन्द्रयामासानाथानिव नृपाग्रतः ॥ ८५॥ : ते खिन्नमानसा दीनवदना भ्रष्टबुद्धयः । विमृश्य सुचिरं चित्ते भव्यप्रासादमासदन ॥८६॥ तानायातश्चिरं दृष्ट्वा मुहुः स्नेहलचेतसा । अभ्युत्थानमलचक्रे सर्वस्याभ्यागतो गुरूः ॥ ८७ ॥ किञ्चिदुच्छ्रसितास्तेऽथ प्रदत्तद्रविणा इव । प्राणमन् कर्मभूपालकुमारं परया मुदा ॥८८॥ कर्मणा विहितं यच्च तेऽजल्पन्नपमाननम् । सुहृदां कथितं दुःखं लघूभवति निश्चितम् ॥ ८९ ॥