________________
मल्लिनाथमहाकाव्ये
चिन्तासन्तानविधुरा समजायत जातुचित् ॥ २४ ॥ तामालोक्य महीपालो बभाषे सुभगोत्तमे ! । कथं चिन्तापराऽसि त्वं ब्रूहि वर्णैः सुकोमलैः १ ॥ २५॥ देवाsभव्यसुतः प्राप्तयौवनोऽपि कथं त्वया । उत्तमकुलनन्दिन्या साकं नो परिणाय्यते १ || २६ ॥ अथोवाच नृपः सुष्ठु स्मारितोऽस्मि सुलोचने ! | अनेककार्यनिघ्नस्य विस्मृतिर्मे गरीयसी ॥ २७ ॥ ततः क्लिष्टाशयं नाम दैवनं कर्मभूपतिः । आजूहवत् प्रतीहारप्रेषणात् सर्वकार्यवित् ॥ २८ ॥ तस्मिन्नुपागते राजा बभाषे वदतां वरः । ज्ञानादभव्यपुत्रस्य स्नुषां योग्यां निवेदय ।। २९ ॥ ज्ञानात् सम्यग् विचार्योच्चैः क्षणं स्थित्वा जगाद सः । अस्ति कालप्रतिष्ठाख्यमव्यवहारपत्तनम् || ३० ।। तत्रानादिवनस्पतिनामा राजति राजराट् । अनन्तकालचक्राख्या तस्य प्राणप्रिया प्रिया ॥३१॥ तीव्रमोहोदितिर्नाम तयोरेका तनूद्भवा ।
यस्या रूपमतिशायि न द्रष्टुमपि पार्यते ॥ ३२ ॥ अमुं भव्येतरं पुत्रं तया योजयसे यदि । स्वर्ण सुरभि जायेत रत्नं स्वर्णेन योज्यते ॥ ३३ ॥ श्रुत्वेदं नास्तिको नाम दूतो भूमीभुजा स्वयम् । प्रेषितस्तस्य सामीप्ये स प्रणत्येत्यवोचत ।। ३४ ॥ मन्मुखेन मम स्वामी स्वामिन्! व्याहरते वचः । निजां मोहोदितिं पुत्रीं मत्पुत्राय प्रयच्छत ।। ३५ ॥ युवयोर्यद्यपि स्नेहः कुलक्रम समागतः । तथापि तं स्थिरीकर्तुं संबन्धः क्रियतेऽधुना ॥ ३६॥ . वनस्पतिरथोवाच विस्मिताननपङ्कजः ।
लुलोठ स्वर्धुनीमध्ये नालस्योपहतस्य मे ॥ ३७ ॥
१.००