________________
..
.
अहम्
अथ तृतीयः सर्गः।
अथ स्वगुरुणा साकमवियुक्ता गुणा इव । सत्त्वराशिहितोत्कृष्टा विजदुस्ते तपोधनाः ॥ १॥ गुर्वाज्ञामिव समिती रक्षन्तस्ते यथाविधि । अभजन्ततरां साम्यं निःसीमाचरणप्रियाः ॥२॥ कायोत्सर्गजुषामेषां स्कन्धकण्डूयनं मृगाः । विदधुनिशितैः शृङ्गैस्तीक्ष्णैर्वासीमयैरिव ॥३॥ क्षुधार्ता अप्यमी धीराः कुर्वाणा दुस्तपं तपः । एषणा न व्यलवन्त निजच्छाया इवाङ्गिनः ॥ ४ ॥ अरण्यानीपथि भ्रान्ता बाढं पिपासिता अपि । नो ववाछुर्जलं शीतं स्फीतं पीतामृता इव ॥ ५॥ शीतेन बाध्यमानास्ते तुषारकणवाहिना । ईपु! ज्वलनज्वालां ग्रीष्मसन्तापिता इव ॥ ६॥ उष्णेन दह्यमानाङ्गा न च्छायां फलिनस्य ते । अस्मरन् कायमानस्थाः सुस्था इभ्यजना इव ॥ ७॥ मशकैरपि संदष्टा अयःशूचीमयैरिव । नोद्वेगं विदधुः कापि न द्वेषं च मनागपि ॥८॥ इत्थं परीषहचमूं जयन्तस्ते तपोधनाः । वीतशोकां पुरी जग्मुर्गु देशवशंवदाः॥९॥ तदागमनकल्याणमुद्यानतरुरक्षकः।। तत्क्षणात् कथयामास जयेत्याशीःपुरःसरम् ॥ १० ॥ ततः प्रकृतिभद्रोऽसौ बलभद्रः क्षितीश्वरः । तान् वन्दितुमगाद् भक्त्या पौरलोकैरलङ्कृतः ॥११॥ 1 -गुक्ता इति च ।