________________
द्वितीयः सर्गः ॥
रे ! भ्रूणादिमहापापकारकोऽपि न मारितः । दर्शनव्याजतोऽस्माभिरित्यतयेत तैर्जनैः ॥ ६१.१॥ भिक्षार्थं प्रविशनेष ग्रामवेश्मसु संयमी । कीटकैर्भक्षितश्चैव लोटखण्डैरताच्यत ॥ ६१२॥ विशेषतस्ताड्यमानस्तत्पापं संस्मरन्नसौ । नाथु किमुत क्षान्तिं विधत्ते स्म दिवानिशम् ॥ ६१३॥ यष्टिभिस्ताडयामासुस्तं दुर्दान्तमहोक्षवत् । जघ्नु मुष्टिभिः कामं वपुर्गुल्मविधायकम् ॥६१४ ॥ कायोत्सर्गस्थितं ग्राम्याः पिदधुः पांशुवृष्टिभिः । देशारिष्टसमुद्भूता उत्पाता इव पत्तनम् ||६१५॥ इत्थं कदर्थ्यमानोऽसौ ग्रामीणैः प्रतिवासरम् । एवं विभावयामास मुध्यमानरजोगुणः ॥ ६१६॥ दूयसे किमु रे ! जीवाऽनर्गलैः खलु जल्पितैः । प्रदत्तं लभ्यते नैवाप्रदत्तं हि कदाचन ॥ ६१७ || शुभेतर परीणामाकृष्टमेतत् तवाऽमतम् । तेनार्जितं स्वयं भोक्ता हेतुमात्रं परः पुमान् ॥ ६१८॥ यदुपात्तं त्वया पापं भोग्यं जननकोटिभिः । तदिहैव शुभखान्तो भोक्ष्यसे क्षणमात्रतः ॥६१९ ॥
यतः
अज्ञानी यत् कृतं कर्म क्षिपेद् वत्सर कोटिभिः । तज्ज्ञानी गुप्तिसंपूर्णः क्षिपेदुच्छ्वासमात्रतः ॥६२० ॥ जात्यरत्नमिवाऽप्राप्तं प्राप्य चारित्रमद्भुतम् । शमेन जयकर्माणि शर्माध्यपि तथाऽर्जय ||६२१|| प्रथमं कटुकं पश्चात् पीयूषति यथौषधम् । तथा ग्राम्यवचो जीव ! विचिन्तय सचेतनः ॥ ६२२|| कर्मक्षयसखा asसौ जीव ! मा क्लीवतां भज । एतत्साहाय्यतः सर्वकर्मनिर्मूलकोऽसि यत् ॥ ६२३||
९३