________________
A
मल्लिनाथमहाकाव्ये
चिरं सहित्वा दुःखानि त्वं चेद् नेदं सहिष्यसे । तद् वृथा प्राक्तनं सर्व मतिर्याऽन्ते हि सा गतिः ।। ६२४॥ यादृक् कर्म कृतं जीव ! भेज तादृगवेदनम् । न शालियते कापि वपने कोद्रवस्य यत् ।। ६२५ ॥ वदनच्छायया कर्म यया जीव ! त्वयाऽर्जितम् । 'तामेव विभृहीदानीमेकरूपा महत्तराः || ६२६॥ एवं भावयतस्तस्य भावनाशुद्धचेतसः । उत्पन्नं केवलज्ञानं लोकालोकप्रकाशकम् ||६२७॥ निःशेषक्षीणकर्मशोऽयोगिस्थो योगिनां वरः । दृढप्रहारी भगवान् प्रपेदे परमं पदम् ।। ६२८ ॥ भावनायाः फलं राजन् । न सम्यग् वक्तुमीश्वरः । यदीदृशोऽपि तमसः परं पदमवाप्तवान् ।। ६२९ ॥ इत्यादितीर्थ कृद्धर्म श्रावं श्रावं महाबलः । रोमाञ्चरञ्चितो देहे भावनाऽम्भोदविन्दुभिः ||६३०॥ अथाऽचलादयोऽप्यूचुर्नृपमित्रा मुनीश्वरम् । व्रतं वयमपि प्रीत्या ग्रहीष्यामो नरेन्द्रवत् ||६३१ ॥ यावद् राज्येऽङ्गजं न्यस्य समागच्छामि सत्वरम् । भवद्भिस्तावदत्रैव स्थेयं मयि कृपापरैः ||६३२ || अथ प्रोवाच भगवान् वरधर्मा मुनीश्वरः । देवानुमिय! माकार्षीः प्रमादं श्रेयसः कृते ॥ ६३३॥ प्रभो ! प्रमादः सुतरां तदैव तत्यजे मया । दैव भवतां वाणी सुश्रुवे तसारिणी || ६३४ ॥ अथ नत्वा गुरुं गत्वा पर्षदं जगतीपतिः । बलभद्रकुमारस्याभिषेकार्थं कृतोद्यमः ||६३५|| पप्रच्छाऽष्टाङ्गनिमित्ततत्त्वज्ञं गणकोत्तमम् । ब्रूहि लग्नं यथा शुद्धं राज्यलक्ष्मीप्रवर्धकम् ॥६३६॥ १ भव तादृगवेदने इति पाठान्तरम् । .