________________
मल्लिनाथमहाकावेहा मातस्तात ! हा! मातविलपन्त इति स्फुटम् । एते स्तनन्धया मोहाद् मयैक निहताः खलु ।।५९८॥ पितृमातृपरित्यक्ताः किमु जीवन्ति बालकाः। कठोरेण कुठारेण विलूनाः पल्लवा इव ॥ ५९९ ।। गोब्रह्मवनिताभ्रूणहत्यामित्यादपद् भृशम् । पातकं पातकं जन्तोधिगार्जयमनार्यवत् ॥६००। स्वयं खं हन्मि किं शस्च्या कूपे झम्पां ददामि किम् । विशामि चलने किंवा विषादा विषमनि किम्?।।६०१॥ एवं विचिन्तयनेष जातवैराग्यभावनः । व्यावर्तमान उद्याने स्थितान् साधूनवैक्षत ॥६०२॥ प्रणिपत्येति तानूचे पापात्माऽहं दुराशयः । दृशाऽप्यदृश्यो वचनैरभाष्योऽहं भवादृशैः ॥६०३॥ नास्ति मत्तः कचित् पापी नास्ति मत्तोऽपि निघृणः । नास्ति मत्तोऽपि निर्धर्मा नास्ति मत्तोऽधमाधमः।।६०४॥ ईदृक्षमपि मां त्रातुं यूयमहंत सांप्रतम् । प्रायश्चित्तरहस्यज्ञाः सर्वसाधारणा यतः ॥६०५|| ततस्ते साधवः साधुधर्मतचमुपादिशन् । श्रामण्यमेष जग्राह पापपङ्कनदीरयम् ॥६०६॥ यस्मिन्नहि स्वतोऽन्यस्मादपि स्मास्मि पातकम् । तत्र तत्रैव नो भोक्ष्ये कृतपर्वतपा इव ॥६०७॥ कर्तास्मि शान्तिमक्षणामित्यभिग्रहयोयुगम् । अग्रहीदेष शुद्धात्मा भववैराग्यरङ्गितः ॥६०८॥ अथावस्कन्दिते ग्रामे तस्मिन्नेव कुशस्थले । विजहार महासत्त्वः कर्मक्षयकृताग्रहः ॥६०९॥ विधायैष महापापी नटवद् वेषमोचनम् । पुनर्खण्टयितुं ग्राममाययौ हेरिकोपमः ॥६१०॥ १ -मनार्जवः इति च।